________________
आगम
(१५)
प्रत
सूत्रांक
[२९३]
दीप
अनुक्रम [ ५४० ]
पदं [२३], -------------- 3: [2]--------- GR [-], ------
• मूलं [ २९३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापना
याः मल
य०वृत्ती.
॥४७०॥
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:)
-
नामे' इति संहनननाम, संहननं - अस्थिरचनाविशेषः, आह च मूलटीकाकार:- "संहननमस्थिरचनाविशेषः” इति, तेन यः प्राह सूत्रे शक्तिविशेष एव संहननमिति, तथा च तद्बन्थः - 'सुत्ते सत्तिविसेसो संघयण' मिति स भ्रान्तः, | मूलटीकाकारेणापि सूत्रानुयायिना संहननस्यास्थिरचनाविशेषात्मकस्य प्रतिपादितत्वात्, यत्त्वकेन्द्रियाणां सेवार्त्तसंहननमन्यत्रोक्तं तत् टीकाकारेण समाहितं, औदारिकशरीरत्वादुपचारत इदमुक्तं द्रष्टव्यं न तु तत्त्ववृत्त्येति, यदि पुनः शक्तिविशेषः स्यात् ततो देवानां नैरयिकाणां च संहननमुध्येत अथ च ते सूत्रे साक्षादसंहननिन उक्ता इत्यलं उत्सूत्रप्ररूपक विस्पन्दितेषु स चास्थिरचनाविशेष औदारिकशरीर एव नान्येषु तेषामस्थिरहितत्यात्, तच्च पोढा,
१ मतमिदं जिनवल्लभीयं यतस्ततो न श्रीमद्धरिभद्रसूरिसूत्रितायां वृत्तौ कथञ्चिदप्युलेखः, न चानुक्तोपालम्भसंभावना यतः तेन जिनवइमेन विहिते तदनुसारिमिच विवृते सूक्ष्मार्थसार्थशत के स्पष्टमवलोक्यते चतुर्दश्यां गाथायां “सुते सत्तिविसेसो संघयणमिट्ठनिचड" ति सूत्रे, व्याख्याने च तथा सूत्रे-आगमे शक्तिविशेषः संहननमुच्यते, कोऽभिप्रायः वर्षभनाराचादिशब्दस्य संहननाभिधायकस्य शक्तिविशेपाभिधायकतथा व्याख्यात्तत्वात् शक्तिविशेषः संहननमागमे प्रोच्यते । ईदृशं च संहननं देवनारकयोरपीष्यत एव तेन देवा वार्षभनाराचसंहननिनो नारकाः सेवार्तसंहननिन इत्यागमाभिप्रायतो बोद्धव्यं । इह तु प्रन्येऽस्थिनिचयकीलिकादिरूपाणामस्थामेव रचनाविशेषः संहननं बोद्धव्यं एतथास्थिनिचयरूपं संहननमदारिकशरीर एव, नान्येषु शेषाणामरथ्याद्यभावादिति गाथार्थः ॥ व्याख्याकारः पञ्चदश्यामपि गाथायां साक्षेपमभिदधौ यथा अत्राह - ननु "नरतिरियाणं छप्पिय, हवंति विगलिंदियाण छेवट्ट" मिति वचनात् यो विकलेन्द्रियाणां पि
Education Internation
For Praise Only
~47~
२३ कर्मप्रकृतिपदं
||४७०॥