________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], -------------- उद्देशक: [२], ------------- दारं [-], -------------- मूलं [२९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२९३]
दीप अनुक्रम [५४०]
रुपजायते तदौदारिकाङ्गोपाङ्गनाम, एवं वैक्रियाहारकाङ्गोपाङ्गनाम्नी अपि वाच्ये, तैजसकार्मणयोस्तु जीवप्रदेशसंस्थानानुरोधित्वान्नास्त्यङ्गोपाङ्गसम्भवः, तथा बध्यतेऽनेनेति बन्धनं, यदौदारिकपुद्गलानां गृहीतानां गृह्यमाणानां च परस्परं तैजसादिपुद्गलैर्वा सह सम्बन्धजनकं तद्वन्धननाम, आह च मूलटीकाकार:-"विद्यते तत्कर्म यन्निमि-IM |त्ता धादिसंयोगापत्तिराविर्भवति, यथा काष्ठद्वयभेदैक्यस्य करणे जतु कारण"मिति, तच पञ्चधा, तद्यथा-औदारि
कबन्धननाम वैक्रियबन्धननाम आहारकबन्धननाम तैजसवन्धननाम कार्मणबन्धननाम, तत्र यदुदयवशात् औदा-IN |रिकपुद्गलानां गृहीतानां गृह्यमाणानां च परस्परं तेजसादिपुद्गलैश्च सह सम्बन्ध उपजायते तदौदारिकवन्धनं, यदुदयाद्वैक्रियपुद्गलानां गृहीतानां गृह्यमाणानां च परस्परं तैजसकार्मणपुद्गलैश्च सह सम्बन्धः तद्वैक्रियबन्धन, यदुदयादाहारकशरीरपुद्गलानां गृहीतानां गृह्यमाणानां च परस्परं तैजसकार्मणपुद्गलैश्च सह सम्बन्धस्तदाहारकबन्धन, यदुदयात्तैजसपुद्गलानां गृहीतानां गृह्यमाणानां च परस्परं कार्मणपुद्गलैश्च सह सम्बन्धस्तत्तैजसबन्धननाम, यदुदयात् कार्मणपुद्गलानां गृहीतानां गृह्यमाणानां च परस्परं सम्बन्धसत्कार्मणवन्धननाम, तथा सङ्घात्यन्ते-पि-IN |ण्डीक्रियन्ते औदारिकादिपुद्गला येन तत्सहातं तच तन्नाम च सछातनाम, तदपि पञ्चधा, तद्यथा-औदारिकसबा-10 तनाम बैंक्रियसवातनाम आहारकसवातनाम तैजससहातनाम कार्मणसवातनाम, तत्र यदुदयवशादौदारिकशरीररचनाऽनुकारिसहातरूपा जायते तदीदारिकसहातनाम, एवं वैक्रियादिशरीरसाहातनामस्वपि भावनीयं, 'संघयण
~46~