SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३२८] गाथा: दीप अनुक्रम [५९४ -५९६] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:) पदं [३५], ---------- TÈRM: [-], ------------- TTỶ (-), --------- - मूलं [३२८] + गाथा: पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः कावासेषु शीतवेदनासम्भवात्, धूमप्रभायामपि पृथिव्यां केचित् शीतवेदनाकाः केचिदुष्णवेदनाकाः, नवरं शीतवेदनाकाः प्रभूततराः, प्रभूतेषु नरकावासेषु शक्तिवेदनासम्भवात्, स्तोका उष्णवेदनाः, कतिपयेष्वेव नरकावासेपूष्णवेदनाभावात्, अधस्तन्योस्तु द्वयोः पृथिव्योः शीतवेदनामेव नैरयिका अनुभवन्ति, तत्रत्यनैरयिकाणां सर्वेषामुष्णयोनिकत्वात्, नरकावासानां त्वनुषमहिमानुषक्तत्वात्, एतावत्सूत्रं चिरन्तनेष्वविप्रतिपत्या श्रूयते केचिदाचार्याः पुन| रेतद्विषयमधिकमपि सूत्रं पठन्ति, ततस्तन्मतं आह- 'केर एकेकीए पुडवीए श्रेयणं भणति' इति केचिदाचार्या एकेकस्मां पृथिव्यां प्रश्ननिर्वचनरूपतया वेदनां भणति, यथा भणन्ति तथोपदर्शयन्ति — 'श्यणप्प में 'त्यादि सुगमं, तदेवं नैरयिकाणां चिन्तिता शीतादिवेदना, सम्प्रत्यसुरकुमाराणां तां चिचिन्तयिपुरिदमाह - 'असुरकुमाराणं पुच्छा' असुरकुमाराणां शीतादिवेदनाविषये पृच्छासूत्रं च वक्तव्यं, 'असुरकुमारा णं भंते । किं सीयं वेदणं येयंति उसिणं बेयणं वेयंति सीओसिणं वेयणं वेयंति ? इति भगवानाह - 'गोयमे' त्यादि, शीतामपि वेदनां वेदयन्ते यदा शीतलजलसम्पूर्णहदादिषु निमज्जनादिकं विदधति, उष्णामपि वेदनां वेदयंते यदा कोऽपि महर्द्धिकस्तजातीयोऽन्यजातीयो वा कोपवशात् विरूपतया दृष्ट्याऽवलोकमानः शरीरे सन्तापमुत्पादयति, यथा प्रथमोत्पन्नः ईशानेन्द्रो बलिचञ्चराजधानीवास्तव्यानामसुर कुमाराणामुत्पादितवान्, अन्यथा वा तथाविधोष्णपुद्गलसम्पृक्तामुष्ण वेदनामनुभवन्तो वेदितव्याः, यदा त्ववयवभेदेन शीतपुद्गलसम्पर्क उष्णपुद्गलसम्पर्कश्वोपजायते तदा शीतोष्ण वेदनां वेदयन्ते, Education Internation For Parts Only ~216~
SR No.035020
Book TitleSavruttik Aagam Sootraani 1 Part 20 Pragyapana Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size71 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy