________________
आगम
(१५)
प्रत
सूत्रांक
[३२८]
गाथा:
दीप
अनुक्रम
[५९४
-५९६]
पदं [३५],
---------- उद्देशकः [-], ------------- दारं [-],
- मूलं [३२८] + गाथा:
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापनाया मल
य० वृत्ती.
॥ ५५४॥
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:)
तया ज्ञातव्या भवति, तदनन्तरमाभ्युपगमिकी औपक्रमिकी च वेदना वक्तव्यतया ज्ञातव्या, ततोऽप्यनन्तरं निदा चानिदा चेति, सातसुखादीनां विशेषमाभ्युपगभिक्यादिशब्दानामर्थं त्वमे वक्ष्यामः, सातादिवेदनां अधिकृत्य यो | विशेषो वक्ष्यते तत्सङ्ग्राहिका द्वितीया गाथा- ' सायम साय' मित्यादि, सर्वे संसारिणः सातामसातां चशब्दात् साता- ४ सातां च वेदनां वेदयन्ते, तथा सुखां दुःखां अदुःखामुखां च, तथा विकलेन्द्रिया - एकद्वित्रिचतुरिन्द्रियाः तुशब्दस्याधिकारार्थसंसूचनार्थत्वादसंज्ञिपञ्चेन्द्रियाश्च मानसरहितां - मनोविकलां वेदनां वेदयन्ते, शेषास्तु द्विविधामेव शरीरमनोनिबन्धनां शारीरी मानसीं तदुभयसमुद्भवां चेति भावः, निदाऽनिदादिगतस्तु विशेषो न सङ्गृहीतो, विचित्रत्वात् सूत्रगतेः । तत्र 'यथोद्देशं निर्देश' इति न्यायात् प्रथमतः शीतादिवेदनाः प्रतिपादनार्थमाह – 'कहविहा णं मंते !" इत्यादि, शीता-शीत पुद्गलसम्पर्कसमुत्था, एवमुष्णा, या च अवयवभेदेन शीतोष्णपुङ्गलसम्पर्कतः शीता उष्णा च सा शीतोष्णा, एनामेव त्रिविधां वेदनां नैरयिकादिचतुर्विंशतिदण्डकक्रमेण चिन्तयति- 'नेरइया ण'मित्यादि, तत्राद्यासु तिसृषु पृथिवीपूष्णां वेदनां वेदयन्ते, ते हि शीताः ये नरकावासाश्च तदाश्रयभूताः सर्वतो जगप्रसिद्धखादिराङ्गारातिरिक्त बहुप्रतापोष्णपुद्गलसम्भूताः, चतुर्थ्यां तु पङ्कप्रभाभिधानायां पृथिव्यां केचिनैरथिका उष्णवेदनां केचिच शीतवेदनामनुभवन्ति, तत्रत्यनरकावासानां शीतोष्णभेदतो द्विधा भेदात्, केवलं ये उष्णवेदनां वेदयन्ते ते प्रभूततराः प्रभूतेषु नरकावासे पूष्ण वेदना सद्भावात्, इतरे शीतवेदनामनुभवन्तः स्तोकाः, स्तोकतरेषु नर
Education Internation
For Pasta Use Only
~215~
३५वेदना
पदं सू. २२८
॥ ५५४॥