________________
आगम
(१५)
प्रत
सूत्रांक
[ ३२१
-३२७]
दीप
अनुक्रम
[५८७
-५९३]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:)
- मूलं [३२१-३२७]
पदं [३४],
------ उद्देशकः [-], - दारं [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापनाया मल
य० वृत्ती.
॥५५०॥
सति इच्छामनः कामविषयेच्छाप्रधानं मनः क्षिप्रमेवातितृप्तिभावात् शीतीभवति, इयमत्र भावना-यथा शीतपुद्गलाः शीतयोनिकस्य प्राणिनः संस्पर्शे शीतत्वं विशेषतः आसादयन्तस्तस्य सुखित्वायोपकल्पन्ते उष्णपुद्गला वा उष्णयोनिकस्य प्राणिनः संस्पर्शे उष्णत्वमतिप्रभूतमासादयन्तः सुखाय घटन्ते तथा देवीशरीरपुद्गला देवशरीरमवाप्य देवशरीरपुद्गला अपि देवीशरीरमवाप्य परस्परं तद्गुणतां भजमानाः परस्परं सुखित्वायोपकल्पन्ते ततस्तृतिरुपजायते तृप्तिभावाचाभिलाषनिवृत्तिर्भवतीति । इह मनुष्य स्त्रीणां मनुष्यपुरुषोपभोगे शुक्रपुद्गलसङ्क्रमतः सुखमुपजायमानं लब्धं तत्किं देवीनामप्युपभोग्य देवसत्क शुक्रपुद्गलसङ्क्रमतः सुखमुपजायते आहोश्चिदन्यथेति संशयानो देवानां शुक्रपुद्गलास्तित्वं पृच्छति - 'अस्थि ण' मित्यादि, अस्तीतिनिपातोऽत्र बद्धर्थे, णमिति पूर्ववत् भदन्त । तेषां देवानां शुक्रपुदूलाः यत्सम्पर्कतो देवीनां सुखमुपजायते १, 'हंता ! अस्थि' भगवानाह - गौतम सन्ति, केवलं ते वैक्रियशरीरान्तर्गता इति न गर्भाधानहेतवः, 'ते णं भंते ।' इत्यादि, ते शुक्रपुद्गलाः, णमिति पूर्ववत् भदन्त । तासामप्सरसां कीदृक्खरूपतया 'भूयो २' यदा २ क्षरन्ति तदा २ इत्यर्थः परिणमन्ति १, भगवानाह - 'गोयमे' त्यादि, श्रोत्रेन्द्रि यरूपतया यावत्स्पर्शनेन्द्रियतया, तेऽपि कदाचिदनिष्टतया परिणमन्तः सम्भाव्येरन् तत आह-इष्टतया इष्टमपि किचित्खरूपतोऽकान्तं भवति, यथा शूकरादीनामिष्टमपि विष्ठादि, तत आह- 'कान्ततथा' कमनीयतया, कान्तमपि किञ्चिन्मनः स्पृहणीयं न भवति तत आह— 'मनोज्ञतया' अतिस्पृहणीयतया, तदप्यतिस्पृहणीयत्वं कदाचिदा
For Parks Use One
------
~207~
३४ प्रवी
चारपदं स्. ३२३-३२७
1144011
war