SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३४], -------------- उद्देशक: -,------------- दारं -1, -------------- मूलं [३२१-३२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [३२१-३२७] दीप अनुक्रम 'शृङ्गाराणि शारो-विभूषणादिभिर्मण्डनं स विद्यते येषां तानि शृङ्गाराणि, 'अभ्रादिभ्य' इस्खादि अप्रत्ययः, विभूषणादिकृतोदारशहाराणीत्यर्थः, तानि च कदाचित् कस्यचिदमनोज्ञानि भवेयुः अत आह–'मनोज्ञानि' स्वखोपभोग्यदेवमनोविषयभावपेशलानि, तानि लेशतोऽपि सम्भाव्यन्ते तत आह-'मनोहराणि खखोपभोग्यस्य देवस्य मनो | हरन्ति-आत्मवशं नयन्तीति मनोहराणि, लिहादित्वादच्', तच मनोहरत्वं प्रथमसमापातमात्रभाष्यपि भवति तत आह-'मनोरमाणि' मनः खखोपभोग्यदेवसम्बन्धि रमयन्ति-क्रीडयन्ति प्रतिक्षणमुत्तरोत्तरानुरागसम्पृक्तं जनयम्तीति मनोरमाणि, तानि इत्थंभूतानि उत्तरवैक्रियाणि रूपाणि विकुर्वित्वा तेषां देवानामन्तिक-समीपं प्रादुर्भवन्ति, 'तते ण'मित्यादि, ततः णमिति पूर्ववत् , ते देवास्ताभिरप्सरोभिः सार्द्ध कायपरिचारण-मनुष्य इव मनुष्यस्त्रीभिः सर्वाङ्गीणकायक्लेशपूर्वकं मैथुनोपसेवनं कुर्वन्ति, एवमेव तेषां वेदोपशान्तिभावात् । तथा चामुमेवार्थ दृष्टान्तेन द्रढयति-से जहाणामए' इत्यादि से' इति अथशब्दार्थः, स चात्र वाक्योपन्यासे, यथा नाम 'ते' विवक्षिताः शीताः पुद्गलाः शीतं-शीतयोनिक प्राणिनं प्राप्य 'शीतमेव' शीतत्वमेवातित्रज्य-अतिशयेन गत्वा तिष्ठन्ति, किमुक्तं भवति ?-विशेषतः शीतीभूतस शीतयोनिकस्य प्राणिनः सुखित्वायोपकल्पन्ते, उष्णा वा पुद्गला उष्णयोनिकं प्रापाणिनं प्राप्य 'उष्णमेय' उष्णत्वमेवातित्रज्य-अतिशयेन गत्वा तिष्ठन्ति, विशेषतः स्वरूपलामसम्पत्या तस्य सुखि-18 वायोपतिष्ठन्ते इति भावः, 'एवमेव' अनेनैव प्रकारेण तैर्देवस्ताभिरप्सरोभिः साई यथोक्तरूपे कायपरिचारणे कृते । [५८७ -५९३] ~206~
SR No.035020
Book TitleSavruttik Aagam Sootraani 1 Part 20 Pragyapana Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size71 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy