SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३४], -------------- उद्देशक: -,------------- दारं --------------- मूलं [३२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [३२१] प्रज्ञापनाया: मल वृत्ती. ॥५४५॥ दीप अनुक्रम [५८७] सावधेरविषयत्वात् , न च पश्यन्ति चक्षुरिन्द्रियविषयाभावात् , द्वीन्द्रिया न जानन्ति, मिथ्याज्ञानतया तेषां सम्यक् । ३४ परिपरिज्ञानाभावात् , द्वीन्द्रियाणां हि मत्यज्ञानं तदपि चास्पष्टमतः प्रक्षेपाहारमपि न ते खयं गृह्यमाणमपि सम्यक् जा- चारणापदं नन्ति चक्षुरिन्द्रियाभावात् न च पश्यन्ति, एवं त्रीन्द्रिया अपि ज्ञानदर्शनविकला भावनीयाः, चतुरिन्द्रियाः 'अत्थेगह सू. ३२१ यत्ति सन्त्येकके ये खयं गृह्यमाणमप्याहारं प्रक्षेपरूपमपि न जानन्ति, मिथ्याज्ञानित्वात् , तेषामपि हि द्वीन्द्रियाणा-18 मिव मत्यज्ञानं तदपि चाविस्पष्टमिति, चक्षुषा पुनः पश्यन्ति चक्षुरिन्द्रियसद्भावात् , तथाहि-पश्यन्ति मक्षिकादयो । गुडादिकमिति एवमाहारयन्ति, तथा सन्त्येकके चतुरिन्द्रिया ये न जानन्ति, मिथ्याज्ञानित्वात्, न पश्यन्ति च अन्ध-8 कारादिना चक्षुर्दर्शनस्स ब्याहतत्वात् अनाभोगसम्भवाद्वा, तिर्यपञ्चेन्द्रियतिरश्चां चतुर्भङ्गी प्रक्षेपाहारं लोमाहारं |चाधिकृत्य भावनीया, तत्र प्रक्षेपाहारमधिकृत्यैवं भावना-सन्त्येकके तिर्यपञ्चेन्द्रिया ये प्रक्षेपमाहारं जानन्ति, सम्यग्ज्ञानितया तेषां यथावस्थितपरिज्ञानात् , पश्यन्ति चक्षुरिन्द्रियभावात् एवमाहारयन्ति १, तथा सन्त्येकके ये जानन्ति पूर्ववत् न च पश्यन्ति चक्षदर्शनस्यान्धकारादिना अनाभोगेन च व्याहतत्वात् २, तथा सन्त्येकके ये न जानन्ति मिथ्याज्ञानितया सम्यकपरिज्ञानाभावात् पश्यन्ति पुनश्चक्षुरिन्द्रियोपयोगात् ३ तथा सन्त्येकके ये न जान ५४५|| न्ति मिथ्याज्ञानित्वान्न च पश्यन्ति पूर्ववत् एवमाहारयन्ति ४ लोमाहारापेक्षया त्वेवं भावना-सन्त्येकके तियेपश्चन्द्रिया ये लोमाहारमपि जानन्ति, विशिष्टावधिज्ञानपरिकलितत्वात्, पश्यन्ति तथाविधक्षयोपशमभावत इन्द्रियपा-181 ~197
SR No.035020
Book TitleSavruttik Aagam Sootraani 1 Part 20 Pragyapana Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size71 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy