________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], --------------- उद्देशक: -1, -------------- दारं -1, -------------- मूलं [१६१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१६१]
दीप अनुक्रम [३७५]
त्वात् तेभ्यो हिता तेषु साध्वी वा यथावस्थितवस्तुतत्त्वप्ररूपणेन सत्या, विपरीतखरूपा मृषा, उभयस्वभावा सत्यामृषा, या पुनस्तिसृष्वपि भाषाखनधिकृता-तल्लक्षणायोगतस्तत्रानन्त विनी सा आमन्त्रणाज्ञापनादिविषया असत्यामृषा, उक्तं च-"सचा हिया सयामिह संतो मुणयो गुणा पयत्या वा । तबिवरीया मोसा मीसा जा तदुभयसहावा ॥१॥ अणहिगया जा तीसुवि सद्दो चिय केवलो असचमुसा" इति, भगवानाह-गौतम ! सिय सञ्चा' | इत्यादि, स्थात् सत्या सत्याऽपि भवतीत्यर्थः, एवं स्यादसत्या स्यात्सत्यामृषा स्वादसत्यामृषेति, अत्रैवार्थे प्रश्नमाहRI'से केणट्रेणं भंते ! इत्यादि, सुगम, भगवानाह-गौतम ! आराधनी सत्या, इद विप्रतिपत्ती सत्यां वस्तुप्रतिष्ठापनबुद्ध्या या सर्वज्ञमतानुसारेण भाष्यते अस्त्यात्मा सदसन्नित्यानित्याधनेकधर्मकलापालिङ्गित इत्यादि सा यथावस्थितयस्त्वभिधायिनी आराध्यते मोक्षमार्गोऽनयेत्याराधनी, आराधिनीत्वात् सत्येति, विराधिनी मृषेति, विराध्यते मुक्तिमार्गोऽनयेति विराधिनी, विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठाशया सर्वज्ञमतप्रातिकूल्येन या भाष्यते यथा नास्त्यात्मा एकान्तनित्यो वेत्यादि तथा सत्याऽपि परपीडोत्पादिका सा विपरीतवस्त्यभिधानात् परपीडाहेतुत्वाद्वा मुक्तिविराधनाद्विराधनी विराधिनीत्वाच मृषेति, या तु किञ्चन नगरं पत्तनं वाऽधिकृत्य पञ्चसु दारकेषु जातेष्वेवमभिधीयते, यथाऽस्मिन् अथ दश दारका जाता इति सा परिस्थूरव्यवहारनयमतेन आराधनविराधिनी, इयं हि पञ्चानां दारकाणां यजन्म तावताउंशेन संवादनसम्भवादाराधिनी, दश न पूर्यन्ते इत्येतावताशेन विसंवादसम्भवात् विरा
~99~