________________
आगम
(१५)
प्रत
सूत्रांक
[१५७
-१५८]
गाथा:
दीप
अनुक्रम
[३६४
-३७१]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
पदं [१०],
------------- उद्देशकः [ - ], ----------- दारं [-],
• मूलं [१५७-१५८] + गाथा: (१-५)
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
भङ्गाः प्रतिषेध्या विधेयाथोक्तास्तथा संख्यातप्रदेशके असंङ्ख्यातप्रदेशके च प्रत्येकं वक्तव्याः, तथा चाह— 'संखेजपएसिए असंखेज्जपएसिए' इत्यादि, पाठसिद्धं, नवरमियं सर्वत्र भावना - यस्मादेकादिष्वप्याकाशप्रदेशेष्वष्टप्रदेशकादीनां स्कन्धानामवगाहो भवति तथा (तो) घटन्ते यथोक्ताः सर्वेऽपि भङ्गाः, नन्यसंख्यातप्रदेशात्मकस्यानन्तप्रदेशात्मकस्य च स्कन्धस्य कथमेकस्मिन्ना काशप्रदेशेऽवगाहः १, उच्यते, [तथा ] तथामाहात्म्यात्, न चैतदनुपपन्नं, युक्तितः सम्भा व्यमानत्वात्, तथाहि - अनन्तानन्ता द्विप्रदेशकाः स्कन्धा यावदनन्तानन्ताः संख्येयप्रदेशात्मकाः अनन्तानन्ता | असंख्येयप्रदेशात्मकाः स्कन्धा अनन्तानन्ता अनन्तप्रदेशात्मकाः, लोकश्च सर्वात्मनाऽप्यसंख्येयप्रदेशात्मकस्ते च सर्वेऽपि लोक एवावगाढा नालोके, ततोऽवसीयते सन्त्येकस्मिन्नप्याकाशप्रदेशेऽवगाढा बहवः परमाणवो बहवो द्विप्रदेशकाः स्कन्धाः यावद्वहवोऽनन्तप्रदेशात्मकाः स्कन्धाः, तथा चात्र पूर्वसूरयः प्रदीपरष्टान्तमुपवर्णयन्ति - यथै| कस्य प्रदीपस्य गृहमध्ये प्रज्वलितस्य प्रभापरमाणवः सर्वमेव गृहं प्राशुवन्ति तथा प्रत्येकं प्रदीपसहस्रस्यापि न च प्रतिप्रदीपं प्रभापरमाणवो न भिन्नाः, प्रतिप्रदीपे पुरुषस्य मध्यस्थितस्य छायादिदर्शनात्, ततो यथैते स्थूला अपि प्रदीपप्रभापरमाणवः एकस्मिन्नप्याकाशप्रदेशे बहवो मान्ति तथा परमाण्वादयोऽपीति न कश्चिद्दोषः, आकाशस्य तथा तथाऽवकाशदानस्वभावतया वस्तूनां च विचित्रपरिणमनस्वभावतया विरोधाभावात्, सम्प्रति परमाण्वादिषु ये भङ्गा ग्रायाः ये च षष्ठादिषु न प्रायास्तत्सङ्ग्राहिकाः संग्रहणिगाथा आह- 'परमाणुमि य तइओ' इत्यादि,
Ja Education International
For Parts Only
~87~