SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२२], -------------- उद्देशक: [-], ------------- दारं , -------------- मूलं [२८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५] उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२८४] क्रिया तस्यारम्भिकी नियमात् , अप्रत्याख्यानिनोऽवश्यमारम्भसम्भवात्, एवं मिथ्यादर्शनप्रत्यययापि सहाविना-1 भावो भावनीयः, तथाहि-यस्थारम्भिकी क्रिया तस्य मिथ्यादर्शनप्रत्यया स्याद्भवति स्थान भवति, मिथ्यादृष्टे - वति शेषस्य न भवतीत्यर्थः, यस्य तु मिथ्यादर्शनक्रिया तस्य नियमादारम्भिकी, मिथ्यादृष्टेरविरतत्वेनावश्यमारम्भ-11 S| सम्भवात्, तदेवमारम्भिकी क्रिया पारिग्राहिक्यादिभिश्चतसृभिरुपरितनीभिः क्रियाभिः सह परस्परमविनाभावेन चिन्तिता, एवं पारिवाहिकी तिसृभिर्मायाप्रत्यया द्वाभ्यामप्रत्याख्यानक्रिया एकया मिथ्यादर्शनप्रत्ययया चिन्तनीया, तथा चाह-एवं पारिग्गहियावि तिहिं उपरिल्लाहिं समं संचारेयवा' इत्यादि सुगम, भावनायाः सुप्रतीतत्वात् । अमुमेवार्थ चतुर्विशतिदण्डकक्रमेण निरूपयति-'नेरझ्यस्स आइलातो चत्तारि' इत्यादि, नैरयिकाधुकर्पतोऽप्यविरतसम्यग्दृष्टिगुणस्थानकं यावन्न परतः ततो नैरयिकाणामाद्याश्चतस्त्रः क्रियाः परस्परमविनाभाविन्यः, मिथ्यादर्शनक्रियां प्रति स्याद्वादः, तमेवाह-'जस्स एयाओ चत्तारि' इत्यादि, मिथ्यादृष्टेर्मिध्यादर्शनक्रिया भवति शेषस्य न भवतीति भावः, यस पुनर्मिथ्यादर्शनक्रिया तस्याद्याश्चतस्रो नियमात्, मिथ्यादर्शने सत्यारम्भिक्यादी-1 नामवश्यंभावात् , एवं तावद्वक्तव्यं यावत्स्वनितकुमारस्य । पृथिव्यादीनां चतुरिन्द्रियपर्यवसानानां पञ्च क्रियाः परस्परमविनाभाविन्यो वक्तव्याः, पृथिव्यादीनां मिथ्यादर्शनक्रियाया अप्यवश्यंभावात् , तिर्यपञ्चेन्द्रियस्यायास्तिस्रः परस्परमविनाभूता देशविरतिं यावदासामवश्यंभावात् , उत्तराभ्यां तु द्वाभ्यां स्थाद्वादः, तमेव दर्शयति-'जस्स दीप अनुक्रम [५२९] Releasestioerseoes ForParaaEEDROIN wjanwroran.ary ~499~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy