SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२७६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२७६] celesewerse दीप कर्तर्ययं प्रयोगः, खयं चयनमागच्छन्तीत्यर्थः, भगवानाह-निर्व्याघातेन-व्याघातस्याभायो निर्व्यापातमव्ययी-18 भावः 'तेन वा तृतीयाया' इति विकल्पेनाम्बिधानानात्राम्भावः 'छद्दिसिं'ति षड्भ्यो दिग्भ्यः, किमुक्तं भवति ?यत्र त्रसनाड्या मध्ये बहिर्वा व्यवस्थितस्यौदारिकशरीरिणो नैकापि दिग् अलोकेन व्याहता वर्तते तत्र निर्व्याघाते व्यवस्थितस्य नियमात् षड्भ्यो दिग्भ्यः पुद्गलानामागमनं, व्याघातं-अलोकेन प्रतिस्खलनं प्रतीस 'सिया। तिदिसिं'ति स्यात्-कदाचित्तिसभ्यो दिग्भ्यः स्याश्चतसृभ्यः स्यात् पञ्चभ्यः, कथमिति चेत् , उच्यते, सूक्ष्मजीवस्यौ-IM दारिकशरीरिणो यत्रो लोकाकाशं न विद्यते नापि तिर्यक पूर्वदिशि नापि दक्षिणदिशि तस्मिन् सर्वोर्ध्वप्रतरे आग्ने-N यकोणरूपे लोकान्ते व्यवस्थितस्याधः पश्चिमोत्तररूपाभ्यस्तिसृभ्यो दिग्भ्यः पुद्गलोपचयः शेषदिकत्रयस्थालोकेन। व्याप्तत्वात् , पुनः स एव सूक्ष्मजीव औदारिकशरीरी पश्चिमां दिशमनुसृत्य तिष्ठति तदा पूर्वदिगस्याधिका जातेति | चतसृभ्यो दिग्भ्यः पुद्गलानामागमनं, यदा पुनरधो द्वितीयादिप्रतरे गतः पश्चिमदिशमवलम्ब्य तिष्ठति तदा ऊर्द्धदिगप्यधिका लभ्यते केवला दक्षिणैव दिगलोकेन ब्याहतेति पञ्चभ्यो दिग्भ्यः पुद्गलानामागमनं, वैक्रियशरीरमाहारकशरीरं च त्रसनाच्या मध्य एव सम्भवति नान्यत्रेति तयोरपि पुगलचयो नियमात् षड्भ्यो दिग्भ्यः, तैजसकामणे सर्वसंसारिणां, ततो यथौदारिकस्य नियाघातेन षड्भ्यो दिग्भ्यो व्याघातं प्रतीत्य पुनः स्थात् त्रिदिग्भ्यः स्थाचतुदिग्भ्यः स्थात पञ्चदिग्भ्यः तथा तैजसकार्मणयोरपि द्रष्टव्यः, यथा चयस्तथा उपचयोऽपचयश्च वक्तव्यः, तत्र उप अनुक्रम [૨૨] Coese REnatured ~467~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy