________________
आगम
(१५)
प्रत
सूत्रांक
[२७४
-२७५]
दीप
अनुक्रम
[५२०
-५२१]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
पदं [२१],
- दारं [-],
- मूलं [२७४-२७५]
------- उद्देशक: [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापनाया मल
य० वृत्ती.
॥४२८॥
-------------
कायोऽपि द्वीन्द्रियो यदा खप्रत्यासन्नदेशे एकेन्द्रियतयोत्पद्यते तदाप्यङ्गुलायेय भागप्रमाणा वेदितव्या, उत्कर्षतस्तिर्यग्लोकालोकान्तः, किमुक्तं भवति - तिर्यग्लोकादधोलोकान्तो ऊर्द्धलोकान्तो वा यावता भवति तावत्प्रमाणा इत्यर्थः, कथमेतावत्प्रमाणेति चेत्, उच्यते, इह द्वीन्द्रिया एकेन्द्रियेष्वप्युत्पद्यन्ते, एकेन्द्रियाश्च सकललोकव्यापिनः, ततो यदा तिर्यग्लोकस्थितो द्वीन्द्रिय ऊर्द्धलोकान्ते अधोलोकान्ते वा एकेन्द्रियतया समुत्पद्यते तदा भवति तस्य | मारणान्तिकसमुद्घातसमवहृतस्य यथोक्तप्रमाणा तैजसशरीरावगाहना, तिर्यग्लोकग्रहणं च प्रायस्तेषां तिर्यग्लोकः स्वस्थानमिति कृतमन्यथा अधोलोकैकदेशेऽप्यधोलौकिकग्रामादी ऊर्द्धलोकैकदेशेऽपि पण्डकबनादो द्वीन्द्रियः सम्भ वतीति तदपेक्षयाऽतिरिक्ताऽपि तैजसशरीरावगाहना द्रष्टव्या एवं त्रिचतुरिन्द्रियसूत्रे अपि भावनीये । नैरयिकसूत्रे आयामेन जघन्यतो यत्सातिरेकं योजनसहस्रमुक्तं तदेवं परिभावनीयम् - इह वलयामुखादयश्चत्वारः पातालकलशाः लक्षयोजनावगाहा योजनसह सवा हल्य ठिकरिकाः तेषामधविभागो वायुपरिपूर्ण उपरितनस्त्रिभाग उदकपरिपूर्णो मध्यस्त्रिभागो वायूदकयोरुत्सरणापसरणधर्मा, तत्र यदा कश्चित्सीमन्तकादिषु नरकेन्द्रकेषु वर्त्तमानो नैरयिकः पातालकलशप्रत्यासन्नवर्त्ती च वायुःक्षयादुदृत्य पातालकलशकुख्यं योजनसहस्रबाहल्यं भित्त्वा पातालकलशमध्ये द्वितीये तृतीये वा त्रिभागे मत्स्य तयोत्पद्यते तदा भवति सातिरेकयोजनसहस्रमाना नैरयिकस्य मारणान्तिकसमु
For Penal Use Only
------
~ 460~
२१ शरीरपदं
॥४५८ ॥