SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२७२] दीप अनुक्रम [५१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः ) - • मूलं [२७२] पदं [२१], -------------- उद्देशक: [-], -------------- दारं [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः प्रज्ञापनायाः मट य० वृत्तौ. ॥४१९॥ धनूंषि द्वौ हस्तौ सार्द्धानि सप्ताङ्गुलानि तृतीये एकोनविंशतिर्धनूंषि द्वौ हस्तौ त्रीण्यङ्गुलानि, चतुर्थे एकविंशतिः धनूंषि एको हस्तः सार्द्धनि द्वाविंशतिरङ्गुलानि पञ्चमे त्रयोविंशतिर्धनूंषि एको हस्तोऽष्टादश चाङ्गुलानि षष्ठे पञ्चविंशतिर्धनूंषि एको हस्तः सार्द्धानि त्रयोदशाङ्गुलानि सप्तमे सप्तविंशतिर्धनूंषि एको हस्तो नव चाङ्गुलानि, अष्टमे | एकोनत्रिंशद्धनूंषि एको हस्तः सार्द्धनि चत्वार्यङ्गुलानि, नवमे यथोक्तरूपं परिमाणं भवति, अत्रापि चायं भावार्थ:प्रथमे प्रस्तटे यत्परिमाणमुक्तं तस्योपरि प्रस्तटे प्रस्तटे सप्त हस्ताः सार्द्धनि च एकोनविंशतिरङ्गुलानि क्रमेण प्रक्षेप्तव्यानि ततो यथोक्तं प्रस्तटेषु परिमाणं भवति, उक्तं च- "सो चेव य तझ्याए पढमे पयरंमि होइ उस्सेहो । सत्त रयणीउ अंगुल उणवीसं सहबुद्दी य ॥ १ ॥ पयरे पयरे य तहा नवमे पयरंमि होइ उस्सेहो । धणुयाणि एगतीसं एका रयणी य नायवा ॥ २ ॥ अस्यापि गाथाद्वयस्येयमक्षरगमनिकाय एवं द्वितीयस्याः शर्करप्रभाया एकादशे प्रस्तटे भवधारणीयाया उत्कर्षत उत्सेध उक्तः - पञ्चदश धनूंषि द्वौ हस्तौ द्वादश चाङ्गुलानि, स एव तृतीयस्याः वालुकाप्रभायाः पृथिव्याः प्रथमे प्रस्तटे उत्सेधो भवति, ततः प्रतरे २ वृद्धिरवसेया सप्त हस्ताः सार्द्धनि चैकोनविंशतिरङ्गुलानि, तथा च सति नवमे प्रस्तटे यथोक्तं स्वधारणीयावगाहनामानं भवति - एकत्रिंशद्धनूंषि एको हस्त इति, उत्तरवैक्रियोत्कृष्टपरिमाणमाह – द्वापष्टिर्धनूंषि द्वौ हस्ती, एतच नवमप्रस्तटापेक्षमवसेयं, शेषेषु तु प्रस्तटेषु निजनिजभवधारणीयप्रमाणापेक्षया द्विगुणद्विगुणमिति ३ । चतुर्थ्यां पङ्कप्रभायां पृथिव्यामुत्कर्षतो भवधारणीया For Parts Only ------ ~ 442~ २१ शरीर पर्द ॥४१९॥ wor
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy