________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२०], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२५८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२५८]
दीप अनुक्रम [५००]
शीलनतादयोऽस्यापि विद्यन्ते ततः किमखावधिज्ञानमुत्पद्यते किंवा न ? इति प्रश्नयति, 'जे णं भंते !' इत्यादि, यस्य शीलवतादिविषयविप्रकृष्टपरिणामभावात् अवधिज्ञानावरणकर्मणः क्षयोपशम उपजायते स उत्पादयेत् , शेषस्तु नेत्यर्थः ॥ अवधिज्ञानानन्तरं च मनःपर्यवज्ञानं द्रष्टव्यं, मनःपर्यवज्ञानं चानगारस्य भवति "तं संजयस्स सबप्पमायरहियस्स विविहरिद्धिमतो" [तत् संयतस्य सर्वप्रमादरहितस्य विविधर्द्धिमतः] इति वचनात् , ततोऽनगारतामेव प्रश्नयति-'जे णं भंते !' इत्यादि, मुण्डो द्विधा-द्रव्यतो भावतश्च, द्रव्यतः केशाद्यपनयनेन भावतः सर्वसङ्गपरित्यागेन, तत्रेह द्रव्यमुण्डत्वासंभवाद् भावमुण्डः परिगृह्यते, मुण्डो भूत्वा अगारात्-खाश्रयरूपाद् विनि-1 गैत्य न विद्यते अगारं-गृहं द्रव्यतो भावतश्च यस्यासी अनगारः तद्भावोऽनगारता तां प्रबजितुं शक्नुयात् ?, भगवानाह-नायमर्थः समर्थः, तिरश्चां भवखभावतः तथारूपपरिणामासंभवात् , अनगारताया अभावे मनःपर्यवज्ञा-18 नस्य चाभावः सिद्ध एव । यथा च तियेंपञ्चेन्द्रियविषयं सूत्रकदम्बकमुक्तं तथा मनुष्यविषयमपि वक्तव्यं, नवर। मनुष्येषु सर्वभावसंभवात् मनःपर्यवज्ञानकेवलज्ञानसूत्रे अधिके प्रतिपादयति-जेणं भंते ! संचाएजा मुंडे भवित्ता इत्यादि सुगम, नवरं 'सिज्झेज्जा' इत्यादि, सिध्येत-समस्ताणिमैश्वर्यादिसिद्धिभाक् भवेत् बुध्येत-लोकालो-18 कखरूपमशेषमवगच्छेत् मुच्येत-भवोपग्राहिकर्मभिरपि, किमुक्तं भवति-सर्वदुःखानामन्तं कुर्यात् । वान-18 मन्तरज्योतिष्कवैमानिकेषु प्रतिषेधो वक्तव्यः, नैरयिकस्य भवखाभाब्यान्नरयिकदेवभवयोग्यायुर्वन्धासंभवात् ।
For P
LOW
~403~