SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२४१] दीप अनुक्रम [४८२] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः ) पदं [१८], ------ उद्देशकः [-], ---दारं [१०], ------------: मूलं [२४१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः य० वृत्ती. 8 ॥ १८९॥ प्रज्ञापना- ४यतकालभाषित्वात्, स जघन्येनान्तर्मुहूर्त, परतो मिध्यात्वगमनेन ज्ञानपरिणामापगमात्, उत्कर्षतः षट्षष्टिसागया मल रोमाणि सातिरेकाणि यावत्, तानि सम्यग्दृष्टेरिव भावनीयानि, सम्यग्दृष्टेरेव ज्ञानित्वात्, आभिनिवोधिकज्ञानि सूत्रे 'एवं चेव'त्ति यथा सामान्यतो ज्ञानी सादिसपर्यवसितो जघन्यत उत्कर्षतथोक्तस्तथाऽऽभिनिवोधिकज्ञान्यपि । वक्तव्यः, स चैवं- 'जह० अंतो० उको० छावडी सागरोवमाई सातिरेगाई' एवं श्रुतज्ञान्यपि, अवधिज्ञान्यप्येवं, नवरं स जघन्यत एकं समयं वक्तव्यः, कथमेकसमयताऽवधिज्ञानस्येति चेत् ?, उच्यते, इह तिर्यक्पञ्चेन्द्रियो मनुप्यो देवो वा विभङ्गज्ञानी सन् सम्यक्त्वं प्रतिपद्यते, तस्य च सम्यक्त्यप्रतिपत्तिसमये एव सम्यक्त्वभावतो विभङ्गज्ञानमवधिज्ञानं जातं, तच यदा देवस्थ व्यवनेन मरणेनान्यस्यान्यथा वाऽनन्तरसमये प्रतिपतति तदा भवत्यवधिज्ञानस्यैकसमयता, उत्कर्षतः सातिरेकाणि षट्षष्टिं सागरोपमाणि यावत्, तानि चाप्रतिपतितावधिज्ञानस्य वारद्वयं | विजयादिषु गमनेन वारत्रयमच्युतदेवलोकगमनेन वा वेदितव्यानि मनः पर्यवज्ञानिन एकसमयता संयतस्याश्रमताद्धायां वर्त्तमानस्य मनःपर्यायज्ञानमुत्पाद्यानन्तरसमये कालं कुर्वतो भावनीया, उत्कर्षतो देशोना पूर्वकोटी, तत ऊर्द्ध संयमाभावेन मनः पर्यवज्ञानस्याप्यभावात्, केवलज्ञानी साद्यसपर्यवसितः, प्रतिपाताभावात् । अज्ञानी त्रिविधः, तद्यथा - अनाद्यपर्यवसितोऽनादिसपर्यवसितः सादिसपर्यवसितश्च तत्र यस्य कदाचनापि ज्ञानलाभो न भावी सोऽनाद्यपर्यवसितो, यस्तु ज्ञानमासादयिष्यति सोऽनादिसपर्यवसितः, यः पुनर्ज्ञानमासाद्य भूयो मिथ्यात्वगमनेनाज्ञानि Educatin internationa For Penal Use Only ~382~ १८ काय स्थितिपदं ॥३८९॥
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy