________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [१], -------------- दारं ], -------------- मूलं [२०९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[२०९]
दीप अनुक्रम [४४६]
प्रज्ञापना-णात् ततस्ते कदाचिदाहारयन्तीत्युच्यते, अपर्याप्तकावस्थायां च नोच्छ्रुसन्ति अन्यदा तूच्छसन्ति तत उच्यते आह-१७लेश्यायाः मल- चोच्छसन्तीति ॥ कर्मसूत्रमाह-'असुरकुमाराणं भंते ! सके समकम्मा' इत्यादि, अत्र नैरयिकसूत्रापेक्षया विप- पदम् यवृत्ती.
यासः, नैरयिका हि पूर्वोत्पन्ना अल्पकर्माण उक्ता इतरे तु महाकाणः असुरकुमारास्तु ये पूर्वोत्पन्नास्ते महाक॥३६॥
र्माणः इतरेऽल्पकर्माणः, कथमिति चेद् , उच्यते, इहासुरकुमाराः खभवादुद्धृतास्तिर्यसूत्पद्यन्ते मनुष्येषु च, तिर्यत्पद्यमानाः केचिदेकेन्द्रियेषु पृषिच्यवनस्पतित्पद्यन्ते केचित् पञ्चेन्द्रियेषु, मनुष्येष्वपि चोत्पद्यमानाः कर्मभूमिकगर्भव्युत्क्रान्तिकमनुष्येषूत्पद्यन्ते न शेषेषु, पण्मासावशेषायुषश्च सन्तः पारभविकमायुर्वन्ति, पारभविकायुर्वन्धकाले च या एकान्ततिर्यग्योनिकयोग्या एकान्तमनुष्ययोग्या वा प्रकृतयस्ता उपचिन्वन्ति, ततः पूर्वोत्पन्ना महाकर्मतराः, ये तु पश्चादुत्पन्नास्ते नाद्यापि पारभविकमायुर्वन्ति नापि तिर्यग्मनुष्ययोग्याः प्रकृतीरुपचिन्वन्ति ततस्तेऽल्पकर्मतराः, एतदपि सूत्रं समानस्थितिकसमानभवपरिमितासुरकुमारविषयमवसेयं, पूर्वोत्पन्नका अपि बद्धपारभविकायुषः पश्चादुत्पन्ना अपि अबद्धपारमविकायुषः स्तोककालान्तरिता प्रायाः, अन्यथा तिर्यग्मनुष्ययोग्यप्रकृतिवन्धेऽपि पूर्वोत्पत्रकात् पश्चादत्पन्न उत्कृष्टस्थितिकोऽभिनवोत्पन्नोऽनन्तसंसारिका महाकर्मतर एव भवति | |३३६॥ वर्णसूत्रे ये ते पूर्वोत्पन्नकाते अविशुद्धवर्णतराः, कथमिति चेदुच्यते-एतेषां हि भवापेक्षा प्रशस्तवर्णनानः शुभस्तीत्रानुभाग उदयः, स च पूर्वोत्पन्नानां प्रभूतः क्षयमुपगत इति ते अविशुद्धतरवर्णाः, इतरे तु पश्चादुत्पन्नतया नाद्यापि
~276~