SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: -, -------------- दारं -1, -------------- मूलं [२०५...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२०५] दीप अनुक्रम [४४१] ते च परमार्थतः कषायस्वरूपा एव, तदन्तर्गतत्वात् , केवलं योगान्तर्गतद्रव्यसहकारिकारणभेदवैचित्र्याभ्यां ते कृष्णादिभेदर्भिन्नाः तारतम्यभेदेन विचित्राश्चोपजायन्ते, तेन यद् भगवता कर्मप्रकृतिकृता शिवशर्माचार्येण शतकाख्ये ग्रन्थेऽभिहितं “ठिइअणुभागं कसायओ कुणाई" इति तदपि समीचीनमेव, कृष्णादिलेश्यापरिणामानामपि कषायोदयान्तर्गतानां कषायरूपत्वात् , तेन यदुच्यते कैश्चिद्-योगपरिणामत्वे लेश्यानां "जोगा पयडिपएसं ठिइअणुभार्ग कसायो कुणइ" इति वचनात् प्रकृतिप्रदेशबन्धहेतुत्वमेव स्यान्न कर्मस्थितिहेतुत्वमिति, तदपि न समीचीनं, यथोक्तभावार्थापरिज्ञानात्, अपि च-न लेश्याः स्थितिहेतवः, किंतु कषायाः, लेश्यास्तु कषायोदयान्तर्गताः अनुभागहेतवः, अत एष च 'स्थितिपाकविशेषस्तस्य भवति लेश्याविशेषेण' इत्यत्रानुभागप्रतिपत्त्यर्थ पाकग्रहणं, एतच सुनिश्चितं कर्मप्रकृतिटीकादिषु, ततः सिद्धान्तपरिज्ञानमपि न सम्यक् तेषामस्ति, यदप्युक्तम्-'कम्र्मनिप्यन्दो लेश्या, निष्यन्दरूपत्वे हि यावत् कषायोदयः तावन्निष्यन्दस्थापि सद्भावात् कर्मस्थितिहेतुत्वमपि युज्यते | एवे'त्यादि, तदप्यश्लीलं, लेश्यानामनुभागवन्धहेतुतया स्थितिवन्धहेतुत्वायोगात्, अन्यञ्च-कर्मनिष्यन्दः किं कर्मकल्क उत कर्मसारः, न तावत्कर्मकल्कः, तस्यासारतयोत्कृष्टानुभागबन्धहेतुत्वानुपपत्तिप्रसक्तः, कल्को हि असारो भवति असारश्च कथमुत्कृष्टानुभागवन्धहेतुः, अथ चोत्कृष्टानुभागवन्धहेतयोऽपि लेश्या भवन्ति, अथ कर्मसार इति पक्षस्तहि कस्य कर्मणः सार इति वाच्यं , यथायोगमष्टानामपीति चेत् अष्टानामपि कर्मणां । ~265~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy