SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२०४] दीप अनुक्रम [४४०] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः ) पदं [१६], उद्देशक: [ - ], ------------- दारं [-1, ---- - मूलं [२०४] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः -------------- ध्वपि भावनीयं, 'पंचिंदियतिरिक्खजोगिया जहा नेरइया' इत्यादि, पञ्चेन्द्रियतिर्यग्योनिका यथा नैरविकास्तथा वक्तव्याः, नवरं वैक्रियमिश्रवै क्रियशरीरकायप्रयोगिस्थाने औदारिकओदारिक मिश्रशरीरका यप्रयोगिणो वक्तव्याः, किमुक्तं भवति ? - सत्यमनः प्रयोगिणोऽपीत्यादि तावद्वक्तव्यं यावदसत्यामृपावाग्योगिनोऽपि तत औदारिकशरीरकायप्रयोगि गोऽपि औदारिक मिश्रशरीरकायप्रयोगिणोऽपीति वक्तव्यं, एतानि दश पदानि बहुवचनेन सदाऽवस्थितानि, यद्यपि च तिर्यक्पञ्चेन्द्रियाणामप्युपपातविरहकाल आन्तर्मुहूर्त्तिकस्तथाऽप्युपपात विरह कालान्तर्मुहूर्त्त लघु औदारिक मिश्रान्तमुहूर्तमतिबृहदित्यत्राप्यौदारिक मिश्रशरीरकाय प्रयोगिणः सदा लभ्यन्ते यस्तु द्वादशमौहूर्त्तिक उपपातविरहकालः स गर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिरश्चां न सामान्यपञ्चेन्द्रियतिरश्चामिति, कार्मणशरीरका यप्रयोगी तु तेष्वपि कदाचिदेकोऽपि न लभ्यते, आन्तर्मुहूर्तिकोपपातविरह कालभावात्, ततो यदा एकोऽपि कार्मणशरीरी न लभ्यते तदा प्रथमो भङ्गः यदा पुनरेको लभ्यते तदा द्वितीयः यदा बहवस्तदा तृतीयः, मनुष्येषु मनश्चतुष्टयवाक्चतुष्टयौदारिकवैक्रियद्विकरूपाण्येकादश पदानि सदैव बहुवचनेन लभ्यन्ते, वैक्रियमिश्रशरीरिणः कथं सदैव लभ्यन्ते इति चेत् ? उच्यते, विद्याधराद्यपेक्षया, तथाहि - विद्याधरा अन्येऽपि केचिन्मिथ्यादृष्ट्यादयो वैक्रियलब्धिसम्पन्नाः अन्यान्यभावेन सदैव विकुर्वणायां लभ्यन्ते, आह च मूलटीकाकारः - "मनुष्या वैक्रियमिश्रशरीरप्रयोगिणः, सदैव विद्याधरादीनां विकुर्वणाभावादिति, औदारिकमिश्रशरीरकायप्रयोगी कार्मणशरीरकायप्रयोगी च कदाचित्सर्वथा न Eucation Internationa For Pale Only ~ 253~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy