________________
आगम
(१५)
प्रत सूत्रांक
[१८१
-१८२]
दीप
अनुक्रम
[४०५
-४०६]
““प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
| ------------- उद्देशकः [-], -------------- - दारं [-1,
मूलं [१८१-१८२]
पदं [१३], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Education International
परिणामः प्रज्ञप्तः, तद्यथा— जीवपरिणामश्वाजीवपरिणामश्च तत्र जीवस्य परिणामो जीवपरिणामः, स प्रायोगिकः, अजीवस्य परिणामोऽजीवपरिणामः, स वैश्रसिकः, चशब्दौ स्वगतानेकभेदसूचकौ, तांथ भेदान् अग्रे सूत्रकृदेव वक्ष्यति, तथा चाह - 'जीवपरिणामे णं भंते!' इत्यादि, दशविधो जीवपरिणामः, तद्यथा--गतिपरिणाम इत्यादि, तत्र गम्यते नैरयिकादिगतिकर्मोदयवशादवाप्यते इति गतिः - नैरयिकत्वादिपर्याय परिणतिः गतिरेव परिणामो गतिपरिणामः १, तथा इन्दनादिन्द्रः - आत्मा ज्ञानलक्षणपरमैश्वर्ययोगात् तस्येदं, 'इन्द्रिय' मिति निपातनादिन्द्रशब्दादियप्रत्ययः, इन्द्रियाण्येव परिणाम इन्द्रियपरिणामः २, तथा कर्षन्ति - हिंसन्ति परस्परं प्राणिनोऽस्मिन्निति कषः - संसारस्तमयन्ते - अन्तर्भूतव्यर्थत्वात् गमयन्ति प्रापयन्ति ये ते कपायाः 'कर्मणोऽणि' त्यण् प्रत्ययः, कषाया एव परिणामः कषायपरिणामः ३, लेश्यादिशब्दार्थो वक्ष्यमाणः, लेश्या एव परिणामो लेश्यापरिणामः ४ योग एव परिणामो योगपरिणामः ५ उपयोग एव परिणाम उपयोगपरिणामः ६ एवं ज्ञानपरिणाम ७ दर्शनपरिणाम ८चारित्रपरिणाम ९ वेदपरिणामेष्वपि भावनीयं । सम्प्रत्यमीषां पदानामित्थं क्रमेणोपन्यासे कारणमभिधीयते तत्र | सर्वे भावास्तत्तद्भावाश्रिता गतिपरिणामं विना न प्रादुष्ष्यन्ति ततः प्रथमं गतिपरिणामः १ गतिपरिणामे च सत्यवश्यमिन्द्रियपरिणाम इति तदनन्तरमिन्द्रियपरिणाम उक्तः २ इन्द्रियपरिणामे च सति इष्टानिष्टविषयसम्बन्धाद्रागद्वेषपरिणतिरुपजायते इति तदनन्तरं कषायपरिणामः ३ कषायपरिणामश्वावश्यं लेश्यापरिणामाविनाभावी, तथाहि
For Parts Only
-----
~ 173~