________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१२], ------------- उद्देशक: [-1, ------------- दारं -1, ------------- मूलं [...१८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सुत्रांक [...१८०
तासां श्रेणीनां विष्कम्भसूचिरकुलद्वितीयवर्गमूलं तृतीयवर्गमूलप्रत्युत्पन्नं, एतदुक्तं भवति-अङ्गुलमात्रक्षेत्रप्रदेशराशेरसत्कल्पनया षट्पञ्चाशदधिकशतद्वयप्रमाणस्य यत् द्वितीयं वर्गमूलं, असत्कल्पनया चतुष्कलक्षणं, तत्तृतीयेन वर्ग-R मूलेन, असत्कल्पनया द्विकरूपेण गुण्यते, गुणिते च सति यावान् प्रदेशराशिर्भवति, असत्कल्पनया अष्टौ, तावत्प्रदेशात्मिकया विष्कम्भसूच्या परिमिताः श्रेणयः परिग्राह्याः, तत्रापि ता एव अष्टौ श्रेणय इति प्रकारद्वयेऽप्यर्थाभेदः, आहारकाणि नैरयिकवत्, सैजसकार्मणानि बद्धानि बद्धवैक्रियवत्, मुक्तान्यौधिकमुक्तवत् ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां द्वादशमं पदं समासम् ॥१२॥
अथ त्रयोदर्श प्रारभ्यते।
दीप अनुक्रम [४०४]
तदेवं व्याख्यातं द्वादशमं पदं, सम्प्रति त्रयोदशमारभ्यते, तस्स चायमभिसम्बन्धः-इहानन्तरपदे औदारिकादिशरीरविभाग उक्त, तानि पुनः शरीराणि तथा परिणामे भवन्ति नान्यथा, ततः परिणामखरूपप्रतिपादनार्थमिदमारभ्यते, तत्र चेदमादिसूत्रI कतिविधे पं भंते ! परिणामे पण्णते?, गो० ! दुविहे परिणामे पं०, तं० जीयपरिणामे य अजीवपरिणामे य (सूत्र १८१)
अत्र पद (१२) "शरीर" परिसमाप्तम्
अथ पद (१३) “परिणाम" आरभ्यते
~171~