________________
आगम
(१५)
प्रत
सूत्रांक
[... १८०]
दीप
अनुक्रम
[४०४]
“प्रज्ञापना”
पदं [१२], ------------- उद्देशक: [-],
, दारं [-1], [------------- मूलं [... १८० ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापनायाः मल
य० वृत्ती.
॥२८३॥
-
- उपांगसूत्र - ४ ( मूलं + वृत्ति:)
यगुणा द्रष्टव्या, तथा चाह मूलटीकाकार:- 'जम्हा वाणमंतरेहिंतो जोइसिया संखिजगुणा पढिज्जंति, तम्हा विक्संभसूईवि तेसिं तेहिंतो संखेज्जगुणा चैव भवति' इति नवरं प्रतिभागे स्पष्टतरो विशेषस्तमेवाह - 'बिछप्पण्णंगुलसयवग्गपलिभागो पयरस्स' इति षट्पञ्चाशदधिकशतद्वयाङ्गुलवर्गप्रमाणः प्रतिभागः प्रतरस्य पूरणेऽपहरणे च, अत्रापीयं भावना - षट्पञ्चाशदधिकशतद्वयाङ्गुलवर्गप्रमाणे श्रेणिखण्डे यद्येकैको ज्योतिष्कोऽवस्थाप्यते ततस्ते सकलमपि प्रतरमापूरयन्ति, यदिवा यद्येकैकज्योतिष्कापहारेण एकैकं षट्पञ्चाशदधिकशतद्वयाङ्गुलवर्गप्रमाणं श्रेणिखण्डमपहियते तत एकत्र ज्योतिष्काः परिसमाप्तिमुपयान्ति अपरत्र सकलं प्रतरमिति, एवं च ज्योतिष्काणां व्यन्तरेभ्यः सङ्ख्येयगुणहीनः प्रतिभागः सङ्ख्येयगुणाभ्यधिका सूचिः, पञ्चसङ्ग्रहे पुनः षट्पञ्चाशदधिकशतद्वयप्रमाण एव प्रतिभाग उक्तो नतु षट्पञ्चाशदधिकशतद्वय वर्गप्रमाणः तथा च तद्ग्रन्थः-- "छप्पन्न दोसयंगुलसूइपएसेहिं भाइयं पयरं । जोइसिएहिं हीरइ" इति, मुक्तान्यौधिकमुक्तवत्, आहारकाणि नैरयिकवत्, तैजसकार्मणानि बद्धानि वैक्रियवत्, मुक्तान्यौधिकमुक्तवत् । वैमानिकानामौदारिकाणि नैरयिकवत्, वैक्रियाणि बद्धानि असङ्ख्येयानि, तत्र कालतो मार्गणा ज्योतिष्कवत्, क्षेत्रतो मार्गणाऽसङ्ख्येयाः श्रेणयः, किमुक्तं भवति १ – असोयासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानीति, तासां च श्रेणीनां परिमाणं प्रतरस्यासङ्ख्येयो भागः, प्रतरासङ्ख्येयभाग प्रमिता प्राह्मा इत्यर्थः, तत्र प्रतरासङ्ख्येयभागो नैरयिकादिमार्गणायामपि गृहीत इति विशेषतरं परिमाणं प्रतिपादयति- 'तासि ण' मित्यादि,
Education internationa
For Pass Use Only
~ 170~
१२ शरीरपदं
॥२८३॥