________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [१२], ------------- उद्देशक: [-], ------------- दारं -,------------- मूलं [१७७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
Satra29082908
2018
[१७७]
दीप अनुक्रम [४०१]
द्रव्यतः परिमाणं सर्वजीवेभ्योऽनन्तगुणानि, कथमिति चेत् ?, उच्यते, इह एकैकस्य संसारिजीवस्य एकैकं तैजसशशरीरं, तानि च जीवैविप्रमुक्तानि सन्ति प्रागुक्तयुक्तरनन्तभेदभिन्नानि भवन्ति, तेषां चासङ्ख्येयं कालं यावदवस्थानं,
तावता च कालेन जीवैषिप्रमुक्तान्यन्यानि तैजसशरीराणि प्रतिजीवमसङ्ख्येयानि अवाप्यन्ते, तेषामपि प्रत्येकं प्रागुशक्तयुक्त्या अनन्तभेदभिन्नतेति भवन्ति सर्वजीवेभ्योऽनन्तगुणानि, तत्ति जीववर्गप्रमाणानि भवेयुरत आह-'जीव
वग्गस्स अर्णतभागे' इति, जीववर्गस्यानन्तभागप्रमाणानि, जीववर्गप्रमाणानि कस्मान्न भवन्तीति चेत्, उच्यते, यदि एकैकस्य जीवस सर्वजीवराशिप्रमाणानि किश्चित्समधिकानि वा भवेयुर्यन सिद्धानन्तभागपूरणं भवति ततो जीववर्गप्रमाणानि भवन्ति, वर्गो हि तेनैव राशिना तस्य राशेर्गुणने भवति, यथा चतुष्कस्य चतुष्केन गुणने षोडशात्मको वर्ग इति, न चैकैकस्य जीवस्य सर्वजीवप्रमाणानि किश्चित्समधिकानि वा तैजसशरीराणि किन्त्यतिस्तोकानि, तान्यपि असक्येयकालावस्थायीनीति, तावता कालेन यान्यप्यन्यानि भवन्ति तान्यपि स्तोकानि, कालस्य स्तोकत्वात् , ततो जीववर्गप्रमाणानि न भवन्ति, किन्तु जीववर्गस्थानन्तभागमात्राणि, अनन्तभागप्रमाणतायां च पूर्वाचार्यप्रदर्शितमिदं निदर्शनं-सर्वजीवास्तत्त्ववृत्त्या अनन्ता अपि असत्कल्पनया दश सहस्राणि, तेषां च दशसहखाणां वर्गो दश कोट्यः, तैजसशरीराणि च मुक्तान्यसत्कल्पनया दशलक्षप्रमाणानि, ततः सर्वजीवेभ्यः किल शतगुणानीति सर्वजीवेभ्योऽनन्तगुणान्युक्तानि, जीववर्गस्य च शततमे भागे वर्तन्ते, ततो जीववर्गस्यानन्तभागमात्राणि
8292
rajastaram.org
~151~