SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१६८ -१६९] गाथा दीप अनुक्रम [३९१ -३९३] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः ) - • मूलं [ १६८ - १६९ ] + गाथा पदं [११], ------------ उद्देशक: [ - ], · दारं [-], ------------- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः ------------ पुनरेकप्रयत्नगृहीतानामपि सर्वेषां द्रव्याणामपि समुदायो विवश्यते तदा नियमात् पञ्चवर्णानि गृह्णन्ति (हृति), एवं गन्ध| रसेष्वपि भावनीयं, स्पर्शतः चिन्तायामेकस्पर्शप्रतिषेध एकस्यापि परमाणोरवश्यं स्पर्शद्वयभावात्, तथा चोक्तम्- “कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसगन्धवर्णो द्विस्पर्शः कार्यलिङ्गश्च ॥ १ ॥ द्विस्पर्शानि - मृदुशीतानि मृदूष्णानीत्यादि, 'जाब चउफासा' इति यावच्छन्दकरणात् त्रिस्पर्शपरिग्रहः, तत्र त्रिस्पर्शान्येवं कानिचित् द्रव्याणि किल मृदुशीतस्पर्शानि कानिचित् मृदुखिग्धस्पर्शानि, तत्र मृदुस्पर्शो मृदुस्पर्श एवान्तर्भूत इत्येकस्पर्शः शीतस्निग्धरूपौ तु द्वावन्यौ स्पर्शाविति समुदायमधिकृत्य त्रिस्पर्शानि, एवं स्पर्शान्तरयोगेऽपि त्रिस्पर्शानि भावनीयानि कानिचिचतुःस्पर्शानि तत्र चतुःस्पर्शेषु मृदुलघुरूपौ द्वौ स्पर्शाववस्थिती सूक्ष्मस्कन्धेषु तयोरवश्यंभावात्, अन्यौ तु द्वौ स्पर्शो खिग्धोष्णो त्रिग्धशीती रुक्षोष्णी रुक्षशीतौ, सर्वसमुदायमपेक्ष्य नियमात्तानि चतुःस्पर्शानि गृह्णाति तत्र यौ द्वौ मृदुलघुरूपौ स्पर्शाववस्थितौ ताववस्थितत्वादेव व्यभिचाराभावान्न गण्येते ये त्वन्ये स्निग्धादयश्चत्वारस्ते किल वैकल्पिका इति तानधिकृत्य सूत्रमाह, तद्यथा - 'सीयफासाई गेण्हइ' इत्यादि सुगमं, यावत् 'जाई भंते! अनंतगुणलुक्खाई गेण्डर' इह किल चरमं सूत्रमनन्तरमिदमुक्तं 'अनंतगुणलुक्खाईपि गिण्हइ' ततः सूत्रसम्बन्धवशादिदमुक्तं, जाई भंते! जाव अनंतगुणलुक्खाई गेण्हइ', इति यावता जाई भंते! एगगुणकालवण्णाई' इत्याद्यपि द्रष्टव्यं, 'ताई भंते । किं पुट्टाई' इत्यादि, तानि भदन्त ! किं स्पृष्टानि - आत्मप्रदेशसंस्पृष्टानि गृह्णाति, उतास्पृष्टानि ?, भगवानाह - गौतम ! स्पृष्टानि - Education International For Parata Use Only ~129~ waryra
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy