________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना" -
पदं [१], ---------------- उद्देशक: [-], ---------------- दारं [-], ---------------- मूलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१२]]
eeeeeeeeee
स्यात् तत एवं सति व्याकरणसूत्रमित्थं भवेत्-"सिय आहारए सिय अणाहारए' यथा शरीरादिपर्याप्तिषु 'सिय आ-18 हारए सिय अणाहारए" इति, सर्वासामपि च पर्याप्तीनां परिसमासिकालोऽन्तर्मुहूर्तप्रमाणः, पर्याप्सयो विद्यन्ते येषां ते पर्यासा "अभ्रादिभ्य' इति मत्वर्थीयोऽप्रत्ययः, पर्याप्तकाश्च ते सूक्ष्मपृथिवीकायिकाश्च पर्याप्तकसूक्ष्मपृथिवीकायिकाः, चशब्दो लब्धिपर्याप्तकरणपर्याप्तरूपस्वगतभेदद्वयसूचकः, ये पुनः खयोग्यपर्याप्तिपरिसमाप्तिविकलास्तेऽपर्यासाः अपर्याप्ताश्च ते सूक्ष्मपृथिवीकायिकाश्चापर्याप्तसूक्ष्मपृथिवीकायिकाः, चशब्दः करणलब्धिनिवन्धनखगतभेदद्वयसूचका, तथाहि-द्विविधाः सूक्ष्मपृथिवीकायिका अपर्याप्सास्तद्यथा-लब्ध्या करणैश्च, तत्र येऽपर्याप्तका एव सन्तो नियन्ते ते लब्ध्यपर्याप्तकाः, ये पुनः करणानि-शरीरेन्द्रियादीनि न तापन्निवर्तयन्ति अथचावश्यं निवर्तयिष्यन्ति ते करणापर्याप्ताः, उपसंहारमाह-'सेत्त' मित्यादि, त एते सूक्ष्मपृथिवीकायिकाः॥ तदेवं सूक्ष्मपृथिवीकायिकानभिधाय । सम्प्रति बादरपृथिवीकायिकानभिधित्सुस्तद्विषयं प्रश्नसूत्रमाह
से कि तं बादरपुढविकाइया ?, बादरपुढविकाइया दुविहा पनचा, तंजहा-सण्हबादरपुढधिकाइया य खरवादरपुढविकाइया य (सू.१३) | अथ के ते बादरपृथिवीकायिकाः, सूरिराह-यादरपृथिवीकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-श्लक्षणवादरपृथिवीकायिकाश्च खरबादरपृथिवीकायिकाच, तत्र श्लक्ष्णा नाम चूर्णितलोष्ठकल्पा मृदुपृथिवी तदात्मका जीवा अप्युपचा
अनुक्रम [२१]
~63~