________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना" -
पदं [१], ---------------- उद्देशक: [-], ---------------- दारं [-1, ---------------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
च, तत्र द्रव्येन्द्रियाणि निवृत्त्युपकरणरूपाणि, तानि च सविस्तरं नन्द्यध्ययनटीकायां व्याख्यातानीति न भूयो व्याख्यायन्ते, भावेन्द्रियाणि क्षयोपशमोपयोगरूपाणि, तानि चानियतानि, एकेन्द्रियाणामपि क्षयोपशमोपयोगरूपमा-18 वेन्द्रियपञ्चकसम्भवात् , केपाश्चित्तत्फलदर्शनात्, तथाहि-बकुलादयो मत्तकामिनीगीतध्वनिश्रवणसविलासकटाक्षनिरीक्षणमुखक्षिप्तसुरागण्डपगन्धाघ्राणरसाखादतनाद्यवयवस्पर्शनतः प्रमोदभावनाकालक्षेपमुपलभ्यन्ते पुष्फफलानि प्रयच्छन्तः, उक्तं च-"ज किर बउलाईणं दीसइ सेसिन्दिओवलम्भोऽवि । तेणऽत्थि तदावरणक्खओवसमसम्भवो। तेसिं ॥१॥" ततो न भावेन्द्रियाणि लौकिकव्यवहारपथावतीणेकेन्द्रियादिव्यपदेशनिबन्धनं, किन्तु द्रव्येन्द्रियाणि, तथाहि-येषामेकं बाह्यं द्रव्येन्द्रियं स्पर्शनलक्षणमस्ति ते एकेन्द्रियाः येषां वे ते द्वीन्द्रियाः एवं यावद्येषां पञ्च ते पञ्चेन्द्रियाः, आह च-"पंचिदिओवि बउलो नरोच सबविसयोवलम्भाओ। तहवि न भण्णइ पश्चिन्दिओत्ति बज्झिन्दियाभावा॥१॥"
से किन्तं एगेन्दियसंसारसमावण्णजीवपण्णवणा, एगेन्दियसंसारसमावण्णजीवपण्णवणा पश्चविदा पन्नत्ता, तंजहा-पुढविका| इया आउक्काइया तेउक्काइया वाउकाइया वणस्सइकाइया (सू०१०) ' अथ का सा एकेन्द्रियसंसारसमापन्नजीवप्रज्ञापना ?, सूरिराह-एकेन्द्रियसंसारसमापन्नजीवप्रज्ञापना पञ्चविधा
१ यत्किल बकुलादीनां दृश्यते शेषेन्द्रियोपलम्भोऽपि । तेनास्ति तदावरणक्षयोपशमसंभवस्तेषाम् ॥ १॥ २ पञ्चेन्द्रियोऽपि बकुलो नर इव सर्वविषयोपलम्भात् । तथापि न भण्यते पञ्चेन्द्रिय इति बालेन्द्रियाभावात् ॥ १ ॥
अनुक्रम
[१८
~59~