________________
आगम
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [५], --------------- उद्देशक: [-], -------------- दारं --------------- मूलं [११८-१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[११८-१२१]
दवट्ठयाए' इति वचनात् , ततः कालभाषाभ्या सप्रदेशत्वेऽपि न कश्चिद्दोषः, तथा परमावादीनामसवातप्रदेशस्कन्धपर्यन्तानां केषांचिदनन्तप्रादेशिकानामपि स्कन्धानां तथैकप्रदेशावगाढानां यावत् सङ्ख्यातप्रदेशावगाढानां शीतोष्णस्निग्धरूक्षरूपाश्चत्वार एव स्पर्शा इति तैरेव परमाण्यादीनां षट्स्थानपतितता वक्तव्या, न शेषः, द्विप्रदेशस्कन्धसूत्रे 'ओगाहणट्टयाए सिय हीणे सिय तुल्ले सिय अब्भहिए' इत्यादि, यदा द्वावपि द्विप्रदेशिको स्कन्धौ द्विप्रदेशावगाढावेकप्रदेशावगाढौ वा भवतस्तदा तुल्यावगाहनौ, यदा त्वेको द्विप्रदेशावगाढोऽपरस्त्वेकप्रदेशावगाढस्तदा एकप्रदेशावगाढो द्विप्रदेशावगाढापेक्षया प्रदेशहीनो द्विप्रदेशावगाढस्तु तदपेक्षया(प्रदेशा)ऽभ्यधिकः शेषं प्राग्वत् , त्रिप्रदेशस्कन्धसूत्रे 'ओगाहणट्टयाए सिय हीणे' इत्यादि, यदा द्वावपि त्रिप्रदेशको स्कन्धौ त्रिप्रदेशावगाढी द्विप्रदेशावगाढी एकप्रदेशावगाढी वा तदा तुल्यौ यदा त्वेकस्त्रिप्रदेशावगाढो वा द्विप्रदेशावगाढो वा अपरस्तु द्विप्रदेशावगाढ एकप्रदेशावगाढो वा तदा द्विप्रदेशावगाढेकप्रदेशावगाढी यथाक्रम त्रिप्रदेशावगाढद्विप्रदेशावगाढापेक्षया एकप्रदेशहीनी त्रिप्रदेशावगाढद्विप्रदेशावगाढी तु तदपेक्षया एकप्रदेशाभ्यधिको, यदा त्वेकत्रिप्रदेशावगाढोऽपर एकप्रदेशावगाढस्तदा एकप्रदेशावगाढस्त्रिप्रदेशावगाढापेक्षया द्विप्रदेशहीन त्रिप्रदेशावगाढस्तु तदपेक्षया द्विप्रदेशाभ्यधिकः, एवमेकैकप्रदेशपरिवृघ्या चतुःप्रदेशादिषु स्कन्धेष्ववगाहनामधिकृत्य हानिर्वृद्धिर्वा तावद् वक्तव्या यावद्दशप्रदेशस्कन्धः, तस्मिंश्च दशप्रदेशके स्कन्धे एवं वक्तव्यं 'जइ हीणे पएसहीणे वा दुपएसहीणे वा जाव नवपएसहीणे वा अह अन्भहिए
दीप
अनुक्रम [३२२-३२५]]
~417~