________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना" -
पदं [१], ---------------- उद्देशक: [-], ---------------- दारं [-1, ---------------- मूलं [३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
(३)
परिणामपरिणतानां तत्परिणामोपटम्भकोऽमूर्तीऽसंख्यातप्रदेशसंघातात्मकोऽधर्मास्तिकायः 'अधर्मास्तिकायस्य देश' इत्यादि पूर्ववत्। तथा आङिति मर्यादया खखभावापरित्यागरूपया काशन्ते-खरूपेण प्रतिभासन्ते अस्मिन् व्यवस्थिताः पदार्था इत्याकाशम् , यदा त्वभिविधावाङ् तदा 'आङि'ति सर्वभावाभिव्याप्त्या काशते इत्याकाशम् , अस्तयःप्रदेशास्तेषां कायोऽस्तिकायः आकाशं च तदस्तिकायश्चाकाशास्तिकायः, 'आकाशास्तिकायस्य देश' इत्यादि पूर्ववत्,। नवरं प्रदेशा अनन्ता द्रष्टव्याः, अलोकस्यानन्तत्वात् । 'अद्धेति' कालस्याख्या, अद्धा चासो समयश्चाद्धासमयः, अथवाऽद्धायाः समयो निर्विभागो भागः, अयं च एक एव वर्चमानः परमार्थः सन् , नातीता नानागताः समयाः, तेषां यथाक्रम विनष्टानुत्पन्नत्वेनासत्वात् , ततः कायत्वाभाव इति देशप्रदेशकल्पनाविरहः, आवलिकादयस्तु पूर्वसमयनिरोधेनैवोत्तरसमयसद्भाव इति ततः समुदयसमित्याद्यसम्भवेन व्यवहारार्थमेव कल्पिता इति द्रष्टव्यम् । तथा अमीषामित्थं क्रमो-18] पन्यासे किं प्रयोजनम् ?, उच्यते, इह धर्मास्तिकाय इति पदं मङ्गलभूतम् , आदौ धर्मशब्दान्वितत्वात् , पदार्थप्ररूपणा च सम्प्रति प्रथमत उतक्षिता वर्त्तते, ततो मङ्गलार्थमादौ धर्मास्तिकायस्योपादानम्,धर्मास्तिकायप्रतिपक्षभूतश्चाधर्मा-13 स्तिकाय इति तदनन्तरमधर्मास्तिकायस्य, द्वयोरपि चानयोराधारभूतमाकाशमिति तदनन्तरमाकाशास्तिकायस्थ, ततः पुनरजीवसाधाददासमयस्स, अथवेह धर्माधर्मास्तिकायो विभू न भवतः, तद्विभुत्वे तत्सामर्थ्यतो जीवपुद्गलानामस्खलितप्रचारप्रवृत्तौ लोकालोकव्यवस्थाऽनुपपत्तेः, अस्ति च लोकालोकव्यवस्था, तत्र तत्र प्रदेशे सूत्रे साक्षाद्दर्शनात् ,
एव्यथ्टotreeseलर
अनुक्रम
[१२
~29~