________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [१], ---------------उद्देशक: -,------------- दारं -1, -------------- मूलं [...३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
0900999apacasa
[३७]]
विवक्षितकल्पोचितसामाचार्ययोगात् ९। लेश्याद्वारे-तेजःप्रभृतिकासूत्तरासु तिसृषु विशुद्धासु लेश्यासु परिहारविशुद्धिकं कल्पं प्रतिपद्यते, पूर्वप्रतिपन्नः पुनः सर्वाखपि कथञ्चिद् भवति, तत्रापीतराखविशुद्धलेश्यासु नात्यन्तसंक्लिटासु वर्तते, तथाभूतासु वर्तमानोऽपि)न प्रभूतकालमवतिष्ठते, किंतु स्तोकं, यतः खवीर्यवशात् झटित्येव ताभ्यो व्यावर्तते, अथ प्रथमत एव कस्मात् प्रवर्तते ?, उच्यते, कर्मवशात्, उक्तं च-"लेसासु विसुद्धासुं पडिवजह तीसु न उण सेसासु । पुवपडिवन्नओ पुण होजा सबासुवि कहंचि ॥१॥णऽचंतसंकिलिट्ठासु थोपं कालं स हंदि इयरासु । चित्ता कम्माण गई तहा विवरीय (वि विरिय) फलं देइ ॥२॥" १० । ध्यानद्वारे-धर्मध्यानेन प्रवर्धमानेन परिहारविशुद्धिक कल्पं प्रतिपद्यते, पूर्वप्रतिपन्नः पुनरातरौद्रयोरपि भवति, केवलं प्रायेण निरनुबन्धः, आह च-1 "शाणमिवि धम्मेणं पडिवजह सो पबहमाणेणं । इयरेसुवि झाणेसुं पुवपवन्नो न पडिसिद्धो ॥१॥एवं च झाण-18 जोगे उद्दामे तिषकम्मपरिणामा। रोहऽढेसुवि भावो इमस्स पायं निरणुबन्धो ॥२॥" ११॥ गणनाद्वारे-जघन्यतः त्रयो गणाः प्रतिपद्यन्ते, उत्कर्षतस्तु शतसंख्याः, पूर्वप्रतिपन्ना जघन्यत उत्कृष्टतो वा शतशः, पुरुषगणनया जघन्यतः प्रतिपद्यमानाः सप्तविंशतिः उत्कर्षतः सहस्रं, पूर्वप्रतिपन्नकाः पुनर्जघन्यतः शतशः उत्कर्षतः सहस्रशः, आह च-"गणओ तिन्नेव गणा जहन्न पडियत्ति सहस उक्कोसा । उक्कोस जहन्नेणं सयसोचिय पुषपडिवन्ना ॥१॥ सत्तावीस जहन्ना सहस्समुकोसओ य पडिवत्ती । सयसो सहस्ससो वा पडिवन जहन्नउकोसा ॥२॥" अन्यथ
दीप अनुक्रम [१९०]
-29.930030
प्र.१२dond
murary.org
~145