________________
आगम
(१५)
प्रत
सूत्रांक
[३७]
दीप
अनुक्रम [१६६ ]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः)
----------- उद्देशकः [ - ], -----
दारं [-],
मूलं [३७...]
पदं [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
ये गृहाकाराः कल्पवृक्षास्तेषु यथासुखमवतिष्ठन्ते, न च तत्र क्षेत्रे दंशमशकयूकामत्कुणमक्षिकादयः शरीरोपद्रवकारिणो जन्तव उपजायन्ते, येऽपि च जायन्ते भुजगव्यामसिंहादयस्तेऽपि मनुष्याणां न बाधायै प्रभवन्ति, नापि ते परस्परं हिंस्यहिंसकभावे वर्तन्ते, क्षेत्रानुभावतो रौद्रानुभावरहितत्वात्, मनुष्ययुगलानि च पर्यवसानसमये युगलं प्रसुवते, तथ युगलमे कोनाशीतिदिनानि पालयन्ति तेषां शरीरोच्छ्रयोऽष्टौ धनुःशतानि, पल्योपमासंख्येय भागप्रमाणमायुः, उक्तं च-" अन्तरदीवेसु नरा धणुसयमसिया सया मुइया । पालंति मिहुणधम्मं पलस्स असंखभागाऊ ॥ ॥ १ ॥ चउसट्टि पिट्टकरंडयाणि मणुयाण तेसिंमाहारो। भत्तस्स चउत्थस्स य गुणसीइदिणाणि पालणया ॥ २ ॥" स्तोककषायत स्तोकप्रेमानुबन्धतया च ते मृत्वा दिवमुपसर्पन्ति, मरणं च तेषां जृम्भिकाकासश्रुतादिमात्रव्यापारपुरस्सरं भवति, न शरीरपीडारम्भपुरस्सरमिति । तदेवमुक्ता अन्तरद्वीपगाः ॥ साम्प्रतमकर्म भूमकप्रतिपादनार्थमाहअथ के तेऽकर्मभूमकाः १, सूरिराह - अकर्मभूमका त्रिंशद्विधाः प्रज्ञताः, तच त्रिंशद्विधत्वं क्षेत्रभेदात्, तथा चाह'तंजहा - पंचहिं हेमबएहिं ' इत्यादि, पञ्चभिर्हेमवतैः पञ्चभिर्हेरण्यवतैः पञ्चभिर्हरिवर्षैः पञ्चभी रम्यकवर्षेः पञ्चभिदेवकुरुभिः पञ्चभिरुत्तरकुरुभिर्भिद्यमाना त्रिंशद्विधा भवन्ति, षण्णां पञ्चानां त्रिंशत्संख्यात्मकत्वात् । तत्र पञ्चसु हैमवतेषु पंचसु हैरण्यवतेषु मनुष्या गब्यूतप्रमाणशरीरोच्छ्रयाः पल्योपमायुषो वज्रर्षभनाराचसंहननाः समचतुरस्रसंस्थानाः चतुःषष्टिपृष्ठकरण्डकाश्चतुर्थातिक्रमभोजिन एकोनाशीतिदिनान्यपत्यपालकाः, उक्तं च- "गाउअमुचा पलि
Education Internation
For Parts Only
-----
~ 119~