________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना".
पदं [१], --------------- उद्देशक: -,---------------दारं -,--------------- मूलं [३७...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
IM
प्रत सूत्रांक [३७]
दीप अनुक्रम [१६६]
रदिग्व्यवस्थिताः अष्टाविंशतिविधा अन्तरद्वीपास्तादशा एव तावत्प्रमाणा तावदपान्तरालास्तन्नामान एव शिखरिपतपूर्वापरदिग्व्यवस्थिता अपि, ततोऽत्यन्तसदृशतया व्यक्तिभेदमनपेक्ष्यान्तरद्वीपा अष्टाविंशतिविधा एव विवक्षिता इति तजातमनुष्या अप्यष्टाविंशतिविधा उक्ताः। तानेव नामग्राहमुपदर्शयति-तंजहा एगोरुया' इत्यादि, एते सप्त चतुष्काः, अष्टाविंशतिसंख्यत्वात् , एते च प्रत्येकं हिमवति शिखरिणि च, तत्र हिमवद्गतास्तावद्भाव्यन्ते-इह जम्बूद्वीपे भरतस्य हैमवतस्य च क्षेत्रस्य सीमाकारी भूमिनिममपञ्चविंशतियोजनो योजनशतोच्छ्रयपरिमाणो भरतक्षेत्रापेक्षया द्विगुणविष्कम्भो हेममयश्चीनपट्टयों नानावर्णविशिष्टधुतिमणिनिकरपरिमण्डितोभयपार्थः सर्वत्र तुल्यविस्तारो गगनमण्डलोलेखिरनमयैकादशकूटोपशोभितो वनमयतलविविधमणिकनकमण्डित तटभागदशयोजनावगाढपूर्वपश्चिमयोजनसहसायामदक्षिणोत्तरपञ्चयोजनशतविस्तारः पद्मदशोभितशिरोमध्यभागः सर्वतः कल्पपादपश्रेणिरमणीयः पूर्वापरपर्यन्ताभ्यां लवणोदार्णवजलसंस्पर्शी हिमवन्नामा पर्वतः, तस्य लवणोदार्णवजलसंस्पर्शादारभ्य पूर्वस्यां पश्चि-1 मायाच दिशि प्रत्येकं वे द्वे गजदन्ताकारे दंष्ट्रे विनिर्गते, तत्र ऐशान्यां दिशि या विनिर्गता दंष्ट्रा तस्यां हिमवतः पर्य-17 न्तादारभ्य त्रीणि योजनशतानि लवणसमुद्रमवगायात्रान्तरे योजनशतत्रयायामविष्कम्भः किश्चिन्यूनकोनपञ्चाशद|धिकनवयोजनशतपरिरय एकोरुकनामा द्वीपो वर्तते, अयं च पञ्चधनु शतप्रमाणविष्कम्भया द्विगव्यूतोच्छ्रितया पद्यवरवेदिकया सर्वतः परिमण्डितः, तस्याश्च पावरवेदिकाया वर्णको जीवाभिगमटीकायामिव वेदितव्यः, साऽपि च ।
~113