SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : सर्वजीव], ------------------ प्रति प्रति० [५], ------------------- मूलं [२६४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२६४] न्तरं जघन्यत एकः समयः, स च द्विसामयिक्यामपान्तरालगतौ भावनीयः, प्रथमे समये कार्मणशरीरोपेतत्वात् , उत्कर्षतत्यत्रिंशत्सागरोपमाणि अन्तर्मुहर्ताभ्यथिकानि, उत्कृष्टो वैक्रियकाल इति भावः, वैक्रियशरीरिणोऽन्तरं जघन्यतोऽन्तर्मुहूर्त, सकद्वैक्रिय करणे एतावता कालेन पुनक्रियकरणात् मानवदेवेषु भावात् , उत्कर्षतो वनस्पतिकालः प्रकट एव, आहारकशरीरिणो जघन्येनान्तप्रामुहूर्त, सकृत्करणे एतावता कालेन पुन: करणात् , उत्कर्षतोऽनन्त कालं यावदपा पुद्गलपरावर्त, तैजसकार्मणशरीरयोधिाऽपियर नास्त्यन्तरं । अल्पबहुवचिन्तायां सर्वस्तोका आहारकशरीरिणः, उत्कर्षतोऽपि सहस्रपृथक्त्वेन प्राप्यमाणत्वात् , तेभ्यो बैंक्रियशरीरिगोऽसोयगुणाः, देवनारकाणां कतिपयगर्भजतिर्यपञ्चेन्द्रियमनुष्यवायुकायिकानां च बैक्रियशरीरित्वात् , तेभ्य औदारिकशरीरिणोऽसयगुणाः, इहानन्तानामपि जीवानां यस्मादेकमौदारिक शरीरं ततः स एक औदारिकशरीरी परिगृह्यते ततोऽसयेवगुणा एवी-| दारिकशरीरिणो नानन्तगुणाः, आह च मुलटीकाकार:-औदारिकशरीरिभ्योऽशरीरा अनन्तगुणाः, सिद्धानामनन्तत्वात् , औ-| दारिकशरीरिणां च शरीरापेक्षयाऽसहयेयत्वा"दिति, तेभ्योऽशरीरिणोऽनन्तगुणाः, सिद्धानामनन्तवात् , तेभ्यसैजसशरीरिणः कार्मजणशरीरिणश्वानन्तगुणाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, तैजसकार्मणयोः परस्पराविनाभावात् , इह तैजसशरीरं कार्मणशरीर पाच निगोदेष्वपि प्रतिजीब विद्यत इति सिद्धेभ्योऽप्यनन्तगुणत्वम् । उपसंहारमाह-'सेत्तं छबिहा सव्वजीवा पन्नत्ता' ॥ उक्ताः डिधाः सर्वजीवाः, सम्प्रति सप्तविधानाह तस्थ जे ते एवमाहमु सत्सविधा सब्यजीवा पं० ते एवमाहंसु, तंजहा-पुढधिकाइया आउका इंया तेउकाइया बाउकाइया वणस्सतिकाइया तसकाइया अकाइया । संचिट्ठणंतरा जहा हेट्टा। जी०७७ 123455SCARBORD- 5 दीप अनुक्रम [३९०] ट -%% अत्र सर्वजीव-प्रतिपत्ति: ५-[षविधा] परिसमाप्ता अथ सर्वजीव-प्रतिपत्ति: ६-[सप्तविधा] आरब्धा: ~461
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy