SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [२१८ -२२०] दीप अनुक्रम [३३८ ३४०] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:) - मूलं [२१८-२२०] प्रतिपत्ति: [३], --------- उद्देशक: [ ( वैमानिक)-२ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः विभूषा तावद्वाच्या यावदच्युतः कल्पः, देव्यस्तु सनत्कुमारादिषु न सन्तीति न तत्सूत्रं तत्र वाच्यं 'गेवेजगदेवा णं भंते! सरीरा केरिसगा विभूसाए पन्नता ? गोयमा ! गेवेज्जगदेवाणं एगे भवधारणिजे सरीरे ते णं आभरणवसणरहिया पगइत्था विभूसाए पण्णत्ता' इति पाठः, एवमनुत्तरोपपातिका अपि वाच्याः ॥ सम्प्रति कामभोगप्रतिपादनार्थमाह- 'सोहम्मी' व्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोः कीदृशान् कामभोगान् प्रत्यनुभवन्तः प्रत्येकं वेदयमाना विहरन्ति ?, भगवानाह - गौतम! इष्टान् शब्दान् इष्टानि रूपाणि इष्टान् गन्धान् इष्टान् रसान् इष्टान् सन् प्रत्यनुभवन्तो विहरन्ति एवं यावद् मैवेयकदेवाः, अनुत्तरोपपातिकसूत्रेषु अनुत्तरानिति वक्तव्यम् ॥ अधुना स्थितिप्रतिपादनार्थमाह- 'सोहम्मगदेवाण' मित्यादि, सौधर्म्मक देवानां भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ?, भगवानाह गौतम ! जघन्यत एक पस्योपममुत्कर्षतो द्वे सागरोपमे, एवमीशाने जघन्यत एकं सातिरेकं पस्योपममुत्कर्षतो द्वे सातिरेके सागरोपमे, सनत्कुमारे जघन्यतो द्वे सागरोपमे उत्कर्षतः सप्त सागरोपमाणि माहेन्द्रे जघन्यतः सातिरेके द्वे सागरोपमे उत्क पेतः सातिरेकाणि सप्त सागरोपमाणि ब्रह्मलोके जघन्यतः सप्त सागरोपमाणि उत्कर्षतो दश सागरोपमाणि, लान्सके जघन्यतो दशसागरोपमाणि उत्कर्षतञ्चतुर्दश सागरोपमाणि, महाशुके जघन्यतञ्चतुर्दश सागरोपमाणि उत्कर्षतः सप्तदश सहस्रारे जघन्यतः सप्तदश ४ सागरोपमाणि उत्कर्षतोऽष्टादश, आनतकल्पे जघन्यतोऽष्टादश सागरोपमाणि उत्कर्षत एकोनविंशतिः प्राणते जघन्यत एकोनविंशतिः सागरोपमाणि उत्कर्षतो विंशतिः, आरणे जघन्यतो विंशतिः सागरोपमाणि उत्कर्षत एकविंशतिः, अच्युते जघन्यत एकविंशतिः सागरोपमाणि उत्कर्षतो द्वाविंशतिः, अपस्वनाधस्तनयैवेयकस्तटे जघन्यतो द्वाविंशतिः सागरोपमाणि उत्कर्षतस्त्रयोविंशतिः, अधस्तनमध्यमत्रैवेयक प्रस्तटे जघन्यतस्त्रयोविंशतिः सागरोपमाणि उत्कर्षतञ्चतुवैिशतिः, अधस्तनोपरितनयैवेयकप्रस्तटे जघन्यतञ्चतुर्विंशतिः सा For P&Pale Cly ----- ~357~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy