SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१८१] दीप अनुक्रम [२९२] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ (मूलं + वृत्ति:) प्रतिपत्ति: [३], ----- उद्देशक: [ ( द्वीप समुद्र)], मूलं [१८१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित... आगमसूत्र [१४] उपांगसूत्र -[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः पवत्सर्वं वक्तव्यं यावत् 'वाणमंतरा देवा देवीओ य आसवंति सयंति जाव विहरंति' नवरमत्र वाप्यादयः क्षीरोदपरिपूर्णा वक्तव्याः, पर्वताः पर्वतेष्वासनानि गृहकाणि गृहकेध्यासनानि मण्डपका मण्डपकेषु पृथिवीशिलापट्टकाः सर्वरत्नमया पाण्याः शेषं तथैव, पुण्डरीकपुष्पदन्तौ चात्र क्षीरवरे द्वीपे यथाक्रमं पूर्वार्दापरार्द्धाधिपती द्वौ देवी महर्द्धिको यावत्पस्थोपमस्थितिको परिवसतस्ततो यस्मात्तत्र वाप्यादिपूदकं क्षीरतुल्यं क्षीरक्षीरप्रभौ च तदधिपती देवाविति स द्वीपः क्षीरवरः, तथा चाह- 'से एएणट्टेण' मित्यायुपसंहारवाक्यं, चन्द्रादिसूत्रं प्राम्बत् || 'खीरखरण' मित्यादि, क्षीरवरं णमिति पूर्ववत् द्वीपं क्षीरोदो नाम समुद्रो वृत्तो वलयाकार संस्थानसंस्थितः सर्वतः समन्तात्सं परिक्षिप्य तिष्ठति, शेषा वक्तव्यता क्षीरवरद्वीपस्येव वक्तव्या यावज्जीवोपपातसूत्रम् ॥ सम्प्रति नामनिमित्तमभिधित्सुराह' से केणद्वेण' मित्यादि, अथ केनार्थेन भदन्त । एवमुच्यते क्षीरोदः समुद्रः क्षीरोदः समुद्रः ? इति भगवानाह – गौतम! क्षीरोदस्य समुद्रस्योदकं यथा राहञ्चक्रवर्त्तिनश्चातुरक्यं चतुःस्थानपरिणामपर्यन्तं गोक्षीरं चतुःस्थानपरिणामपर्यन्तता च प्रागेव व्याख्याता, 'खण्डगुडमत्स्यण्डिकोपनीतं' खण्डगुडमत्स्यण्डिकाभिरतिशयेन प्रापितरसं प्रयत्नेन मन्दाग्निना कथितम्, अत्यभिपरितापे वैरस्यापत्तेः, अत एवाह-वर्णेनोपपेतं गन्धेनोपपेतं रसेनोपपेतं स्पर्शेनोपपेतम् आस्वादनीयं विस्वादनीयं दीपनीयं दर्पणीयं मदनीयं वृंहणीयं सर्वेन्द्रियगात्रग्रहादनीयमिति पूर्ववत् एवमुक्ते गौतम आह-'भवे एयारूये' भवेरक्षीरसमुद्रस्योदकमेतद्रपम् ? भगवानाह - गौतम ! नायमर्थः समर्थः, क्षीरोदस्य यस्मात्समुद्रस्योदकम् 'इतः' यथोक्तरूपात्क्षीरादिष्टतरमेव यावन्मनआपतरमेवाखादेन प्रमं विमलविमलप्रभौ च यथाक्रमं पूर्वापरार्द्धाधिपती द्वौ देवौ महर्द्धिको यावत्पस्योपमस्थितिको परिवसतः ततः क्षीरमि For P&Praise City ~253~ X
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy