________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[१३]]
60%
दीप
खियाः पुंस्वभिलाष: स्त्रीवेदः, पुंसः खियामभिलाषः पुंवेदः, उभयोरप्यभिलायो नपुंसकवेदः, भगवानाह-गौतम! न स्त्रीवेदका न। 31 पुरुषवेदकाः, नपुंसकवेदकाः संमूछिमत्वात् , 'नारकसमूछिमा नपुंसका' इति भगवचनम् ॥ पर्याप्तिद्वारमाह-"तेसिणं भंते'।
इत्यादि, सुगम, पर्याप्तिप्रतिपक्षा अपर्याप्तिस्तन्निरूपणार्थमाह-'तेसि णं भंते!' इत्यादि पाठसिद्धं, नवरं चतस्रोऽप्यपर्याप्तयः करणापेक्षया द्रष्टव्याः, लब्ध्यपेक्षया खेकैव प्राणापानापर्याप्तिः, यस्मादेवमागमः-इह लब्ध्यपर्याप्तका अपि नियमादाहारशरीरेन्द्रियपर्याप्तिपरिसमासावेव नियन्ते नार्वाक्, यत आगामिभवायुर्वद्धा म्रियन्ते सर्व एव देहिनः, तच्चाहारशरीरेन्द्रियपर्याप्तानामेव बन्धमायातीति ॥ सप्रति दृष्टिद्वारमाह-'ते णं भंते !' इत्यादि सुगम, नवरं सम्यग्-अविपरीवा दृष्टिः-जिनप्रणीतवस्तुतत्त्वप्रतिपत्तिर्येषां ते सम्यग्दृष्टयः, मिध्या-विपर्यस्ता दृष्टियेषां भक्षितहत्पूरपुरुषस्य सिते पीतप्रतिपत्तिवत् मिध्यादृष्टयः, एकान्तसम्यपूपमिध्यारूपप्रतिपत्तिविकला: सम्यग्मिध्यादृष्टयः, निर्वचनसूत्रं-गोयमे त्यादि, सुगर्म, नवरं सम्यग्दृष्टित्वप्रतिषेधः सासादनसम्यक्त्वस्यापि तेषामसम्भवात् , सासा|दनसम्यकलवता तन्मध्ये उत्पादाभावात् , ते यतिसंक्लिष्टपरिणामाः, सास्वादनसम्यक्त्वपरिणामस्तु मनाक् शुभ इति तन्मध्ये सासादनसम्यक्त्ववतामुत्पादाभावः, अत एव सदा संकिष्टपरिणामलातेषां सम्यग्मिथ्यादृष्टित्वपरिणामोऽपि न भवति, नापि सम्यग्मिथ्यादृष्टिः सन् तन्मध्ये उत्पद्यते, "न सम्ममिल्छो कुणइ काले" इति वचनात् ॥ गतं दृष्टिद्वारमधुना दर्शनद्वारमाह-दर्शनं नाम सामान्यविशेषासके वस्तुनि सामान्यावयोधः, तचतुर्धा, तद्यथा-चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनं केवलदर्शनं च, तत्र सामान्यविशेषात्मके वस्तुनि चक्षुषा दर्शनं रूपसामान्यपरिच्छेदश्चक्षुर्दर्शनम् , अचक्षुषा-चक्षुर्वर्जशेषेन्द्रियमनोभिर्दर्शनमचक्षुर्दर्शनम् , अवधिरेव दर्शनरूपिसामान्यग्रहणमवधिदर्शनं, केवलमेव दर्शनं-सकलजगद्वाविवस्तुसामान्यपरिच्छित्तिरूपं केवलदर्शनं, तत्र किमेषां दर्शनमिति |
४.
%
अनुक्रम [१४]
~45~