________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [१३]]
स चासातवेदनीयकर्माश्रयः १, कषायेण-कषायोदयेन समुद्घातः कषायसमुद्घातः, स च कषायचारित्रमोहनीयकर्माश्रयः २, मरणे भवो मारणः, स चासो समुद्घातश्च मारणसमुद्घातः ३, वैकिये प्रारभ्यमाणे समुद्धातो वैक्रियसमुद्यातः, स च वैक्रियशरी-XII रनामकर्माश्रयः ४, (जसेन हेतुभूतेन समुद्घातस्तैजससमुद्घातः तैजसशरीरनामकर्माश्रयः) ५, आहारके प्रारभ्यमाणे समुद्घान आहारकसमुद्घातः, स चाहारकशरीरनामकर्माश्रयः ६, केवलिनि अन्तर्मुहूर्तभाविपरमपदे समुद्घातः केवलिसमुद्घातः | ७ । अथ समुद्धात इति कः शब्दार्थ:?, उच्यते-समिति-एकीभावे उत्-प्राबल्ये एकीभावेन प्राबल्येन धात: समुद्घात:, केन सह | एकीभावगमनम् ! इति चेद्, उच्यते, अर्थाद्वेदनादिभिः, तथाहि-यदा आमा वेदनादिसमुद्घातगतो भवति तदा वेदनाद्यनुभवज्ञानप-| रिणत एव भवति नान्यज्ञानपरिणतः, प्राबल्येन घातः कथम् ? इति चेत्, उच्यते, इह वेदनादिसमुद्घातपरिणतो बहून् वेदनीयादि-15 कर्मपुद्गलान् कालान्तरानुभवयोग्यानुद्दीरणाकरणेनाकृष्योदयावलिकायां प्रक्षिप्यानुभूयानुभूय निर्जरयति, आत्मप्रदेशेभ्यः शातयतीति भावः, तत्र वेदनासमुद्घातगत आत्मा वेदनीयकर्मपुद्गलपरिशातं करोति, तथाहि-वेदनाकरालितो जीवः स्वप्रदेशाननन्तानन्तकर्मपरमाणुवेष्टितान् शरीरावहिरपि विक्षिपति, तैश्च प्रदेशैवेदनजघनादिरन्ध्राणि कर्णस्कन्धाद्यन्तरालानि चापूर्यायामतो बिस्तरतश्च शरीरमात्रं क्षेत्रमभिव्याप्यान्तर्मुहूत यावदवतिष्ठते, तस्मिंश्चान्तर्मुहूर्ते प्रभूतासातवेदनीयकर्मपुद्गलपरिशातं करोति , कषायसमुद्घातसमुद्धत: कषायाख्वचारित्रमोहनीयकर्मपुद्गलपरिशातं करोति, तथाहि-कषायोदयसमाकुलो जीवः स्वप्रदेशान् बहिर्विक्षिप्य तैर्वदनोदरादिरप्राणि कर्णस्कन्धाद्यन्तरालानि चापूर्यायामविस्तराभ्यां देहमानं क्षेत्रमभिव्याप्य वर्त्तते, तथाभूतश्च प्रभूतकषायकर्मपुद्गलपरिशातं करोति, एवं मरणसमुद्घातगत आयुःकर्मपुद्गलपरिशातं करोति, वैक्रियसमुद्घातगत: पुनर्जीवः स्त्रप्रदेशान् शरीरावहिनिष्काश्य शरीरवि
अनुक्रम
[१४]
~ 43~