________________
आगम
(१४)
प्रत
सूत्रांक
[१२६]
दीप
अनुक्रम
[१६४]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्ति:)
प्रतिपत्ति: [३], ---
----- उद्देशक: [ ( द्वीप समुद्र)],
- मूलं [ १२६ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
रक्तं तित्थाणकरणसुद्धं मधुरं समं सुललियं सकुहरगुंजतवंसतंतीसुसंपत्तं तालसुसंपत्तं तालसमं (यसुसंपन्तं महसुसंपत्तं) मनोहरं मउयरिभियपयसंचारं सुरभिं सुणतिं वरचारुरूवं दिव्वं न स गेयं पणीयाणं, भवे एयारूवे सिया?, हंता गोयमा ! एवंभूए सिया || (सू० १२६) 'तीसे णं जगतीए' इत्यादि, तस्या णमिति पूर्ववत् जगत्या उपरि पद्मवरवैदिकाया बहिर्वती प्रदेशः 'तत्र' तस्मिन णमिति पूर्ववत्, महानेको बनपण्डः प्रज्ञतः, अनेकजातीयानामुत्तमानां महीरुहाणां समूहो बनपण्डः, आह च मूलटीकाकारः - 'एगजाईएहिं रुक्खेहिं वर्ण अगेगजाईएहिं उत्तमेहिं रुक्सेहिं वणसंडे' इति, स चैकैको देशोने द्वे योजने विष्कम्भतो जगतीसमकः 'परिक्षेपेण' परिरयेण । कथम्भूतः ? इत्याह- 'किण्हे' इत्यादि, इह प्रायो वृक्षाणां मध्यमे वयसि वर्त्तमानानि पत्राणि नीला (कृष्णा) नि तद्योगाद् बनखण्डोऽपि कृष्णः, न चोपचारमात्रात् कृष्ण इति व्यपदेशः किन्तु तथाप्रतिभासनात् तथा चाह— 'कृष्णावभासः' यावति भागे कृष्णानि पत्राणि सन्ति तावति भागे स वनखण्डः कृष्णोऽवभासते ऽतः कृष्णोऽवभासो यस्यासौ कृष्णावभासः, तथा हरितत्वमतिक्रान्तानि कृष्णत्वमसंप्राप्तानि पत्राणि नीलानि तद्योगाद् वनखण्डोऽपि नीलः, न चैतदप्युपचारमात्रेणोच्यते किन्तु तथाऽवभासात्, तथा चाह - नीलावभासः, समासः प्राग्वत्, यौवने तान्येव पत्राणि किशलयत्वं रक्तत्वं चातिक्रान्तानि ईषद्धरितालाभानि पाण्डूनि ४ सन्ति हरितानीत्युपदिश्यन्ते, ततस्तद्योगाद्वनपण्डोऽपि हरितः, न चैतदुपचारमात्रं, किन्तु तथाप्रतिभासोऽप्यस्ति तथा चाह- हरितावभासः, तथा बाल्यादतिक्रान्तानि वृक्षाणां पत्राणि शीतानि भवन्ति ततस्तद्योगाद् बनवण्डोऽपि शीतः, न चासौ न गुणतः किन्तु गुणत एव, तथा चाह— 'शीतावभासः' अधोभागवर्त्तिनां व्यन्तराणां देवानां देवीनां च तद्योगे शीतवातसंस्पर्शः ततः स शीतो For P&Praise City
अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप - समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '१' अत्र १ इति निरर्थकम्
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ १८६ ॥
~382~
प्रतिपत्ती
मनुष्या० चनपण्डाधि०
उद्देशः १
सू० १२६
॥ १८६ ॥