SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [८४] अनुक्रम [82] [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः ) • उद्देशक: [ (नैरयिक)-२], ----- - मूलं [८४] प्रतिपत्ति: [ ३ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीजीवाजीवाभि० मलयगि रीयावृत्तिः ॥ १०८ ॥ तिआहं वा उक्कोसेणं छम्मासेणं वीतिवएज्जा, अत्थेगतिए वीहवएज्जा अत्थेगतिए नो वीतिवएजा, महालता णं गोमा ! इमीसे णं रयणप्पभाष पुढवीए णरगा पण्णत्ता, एवं जाव अधेसमाए, वरं असत्तमा अत्थेगतियं नरगं वीइवइज्जा, अत्थेगइए नरगे नो वीतिवएजा || (सू० ८४) 'इमी से णमित्यादि, अस्यां भदन्त ! रत्रप्रभायां पृथिव्यां नरका: 'किंमहान्तः' किंप्रमाणा महान्तः प्रज्ञमाः १, पूर्व ह्यसङ्ख्यविस्तुता इति कथितं तथासयत्वं नावगम्यत इति भूयः प्रनः अत एवात्र निर्वचनं भगवानुपमयाऽभिधत्ते, गौतम! अयमिति यत्र 4 संस्थिता वयं णमिति वाक्यालङ्कारे अप्रयोजनोच्छ्रितया रत्नमय्या जम्ब्वा उपलक्षितो द्वीपो जम्बूद्वीपः सर्वद्वीपसमुद्राणां धातकीखण्डलवणादीनां सर्वाभ्यन्तरः- आदिभूतः 'सर्वक्षुल्लकः' सर्वेभ्यो द्वीपसमुद्रेभ्यः क्षुल्लको हखः सर्वक्षुकः तथाहि सर्वे लवणादयः समुद्राः सर्वे धातकीखण्डादयो द्वीपा अस्माजम्बूद्वीपादारभ्य प्रवचनोक्तेन क्रमेण द्विगुणद्विगुणायामविष्कम्भपरिचयः ततोऽयं शेषसर्वद्वीपसमुद्रापेक्षया सर्वलघुरिति तथा वृत्तो यतः 'तैलापूपसंस्थानसंस्थितः' तैलेन पकोऽपूपस्तैलापूपः, तैलेन हि पकोऽपूपः प्रायः परिपूर्णवृत्तो भवति न घृतेन पक इति तैलविशेषणं, तस्येव संस्थानं तैलापूपसंस्थानं तेन संस्थित तैलापूपसंस्थानसंस्थितः, तथा वृत्तो यतः | पुष्कर कर्णिका संस्थानसंस्थितः, तथा वृत्तो यतो रथचक्रवालसंस्थानसंस्थितः, तथा वृत्तो यतः परिपूर्णचन्द्रसंस्थानसंस्थितः, अनेकधोपमानोपमेयभावो नानादेशजविनेयप्रतिपत्यर्थः, एकं योजनशतसहस्रमायामविष्कम्भेन त्रीणि योजनशतसहस्राणि षोडश सहस्राणि द्वे | योजनशते सप्तविंशे त्रयः क्रोशा अष्टाविंशं धनुःशतं त्रयोदश अङ्गुलानि अर्द्धाढं च किञ्चिद्विशेपाधिकं परिक्षेपेण प्रज्ञप्तः, परिक्षेपपरिमाणगणित भावना क्षेत्रसमासीकातो जम्बूद्वीपप्रज्ञप्तिटीकातो वा वेदितव्या । 'देवे ण'मित्यादि, देवश्व णमिति वाक्याल For P&Praise City मूल- संपादने शिर्षक-स्थाने अत्र मुद्रण-दोष: दृश्यते— 'उद्देश: २' स्थाने 'उद्देश: १' इति मुद्रितं ~226~ ३ प्रतिपत्तौ उद्देशः १ नरकावासानां महत्ता सु० ८४ ।। १०८ ।।
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy