SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(नैरयिक)-१], -------------------- मूलं [७८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [७८] दीप अनुक्रम [९२] NEष्टा मानेन केन वा ॥१॥" इति कृतं प्रसङ्गेन, विस्तरार्थिना च धर्मसङ्ग्रहणिटीका निरूपणीया । 'से तेणडेण'मित्याद्युपसंहार माह, सेशब्दोऽथशब्दार्थः स चात्र वाक्योपन्यासे अथ 'एतेन अनन्तरोदितेन कारणेन गौतम! एवमुच्यते-स्यात् शाश्वती स्याददशावती, एवं प्रतिपुथिवि तावद्द्वक्तव्यं यावधःसप्तमी पृथिवी, इह यद् यावत्सम्भवास्पदं तच्चत्तावन्तं कालं शश्वद्भवति तदा तदपि । शाश्वतमुच्यते यथा तस्त्रान्तरेषु 'आकप्पट्ठाई पुढवी सासया' इत्यादि, ततः संशय:-किमेपा रमप्रभा पृथवी सकल कालावस्थायितया शाश्वती उतान्यथा यथा तत्रान्तरीयैरुच्यत इति ?, ततस्तदपनोदाथै पृच्छति-'इमा णं भंते' इत्यादि, इयं भदन्त ! रमप्रभा पृ-16 थिवी कालत: 'कियचिरं' कियन्तं कालं यावद्भवति ?, भगवानाह-गौतम! न कदाचिन्नासीत्, सदैवासीदिति भावः, अनादित्वात् , तधा न कदाचिन्न भवति, सर्वदेव वर्तमानकालचिन्तायां भवतीति भावः, अत्रापि स एव हेतुः, सदा भावादिति, तथा न कदाचिन्न भविष्यति, भविष्यचिन्तायां सर्वदेव भविष्यतीति भावः, अपर्यवसितत्वात् । तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिषेधं विधाय सम्प्र-15 हत्यस्तित्वं प्रतिपादयति-'भुवि चेत्यादि, अभून् भवति भविष्यति च, एवं त्रिकालभाविलेन 'धुवा' भुवखादेव 'नियता' नियताब स्थाना, धर्मास्तिकायादिवन् , नियतलादेव च शाश्वती, शश्वद्भाव: प्रलयाभावात् , शाश्वतत्वादेव च सततगङ्गासिन्धुप्रवाहप्रवृत्तावपि पद्मपौण्डरीकहद झान्यतरपुगलविचटनेऽप्यन्यतरपुद्गलोपचयभावात् , अक्षया अक्षयत्वादेव च अव्यया, मानुषोत्तराहिः समुद्रवत् , अव्ययखादेव 'अवस्थिता' खप्रमाणावस्थिता, सूर्यमण्डलादिवत् , एवं सदाऽवस्थानेन चिन्त्यमाना नित्या जीवखरूपवत् , यदि वा धुवादयः शब्दा इन्द्रशकादिवत्पर्यायशब्दा नानादेशजविनेयानुग्रहार्थमुपन्यता इत्यदोपः, एक्मेकैका पुथिवी क्रमेण तावद्वक्तव्या 3 यावदधासप्तमी ।। सम्प्रति प्रतिपृथिवीपु(वि)विभागतोऽन्तरं विचिन्तयिपुरिदमाह ~207~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy