________________
आगम
(१३)
प्रत
सूत्रांक
[3]
दीप
अनुक्रम
[3]
मूलं [३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Education
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र - २ ( मूलं + वृत्ति:)
-
यथा भवति एवं जात आनुपूर्वी सुजातः, तथा निरुपहत-उपदेहिकायुपद्रवरहित उद्विद्धः - उच्चः प्रवरः - प्रधानः स्कन्धो यस्य स ॐ धनमसृणस्त्रिग्धानुपूर्वी सुजातनिरुपहतोद्विद्धमवरस्कन्धः, तथा अनेकस्य नरस्य मनुषस्य ये प्रवरा:-मलम्बा भुजाः- वाहयस्तैरग्राह्यःअपरिमेयोऽनेकनरमवरभुजाग्राद्यः, अनेक पुरुषव्यामैरप्यप्रतिमेयस्थौल्य इत्यर्थः, तथा कुसुमभरेण - पुष्पसम्भारेण सम्-ईपदवनमन्त्यः पत्रसमृद्धाः 'पत्तसमिद्धति संघपित्तलमिति वचनात् विशाला - विस्तीर्णाः शाला:- शाखा यस्य स कुसुमभरसमंत्रनमत्पत्रलविशालशालः, तथा मधुकरीणां भ्रमराणां च ये गणा 'गुमगुमायिता' गुमगुमायन्ति स्म, ककर्तृत्वात्कर्त्तरि क्तमत्ययो, गुमगुमेति शब्दं कृतवन्तः सन्त इत्यर्थो, निलीयमानाः - आश्रयन्त उड्डीयमानाः- तत्प्रत्यासन्नमाका परिभ्रमन्तस्तैः सश्रीको मधुकरीभ्रमरगणगुमशुमानिनिलीयमानोड्डीयमानसश्रीकः, तथा नानाजातीयानां शकुनगणानां यानि मिथुनानि - स्त्रीपुंसयुग्मानि तेषां प्रमोदवशतो यानि परस्पस्सुमधुराण्यत एव कर्ष्णमुखानि - कर्णसुखदायकानि प्रलप्तानि भाषणानि, शकुनगणानां हि स्वेच्छया क्रीडतां प्रमोदॐ भरवशतो यानि भाषणानि तानि प्रलप्सानीति प्रसिद्धानि ततः 'पलत्ते' त्युक्तं तेषां यः शब्दो ध्वनिस्तेन मधुरो नानाशकुनगण मिथुनॐ सुमधुरकर्णमुखप्रलप्तशब्दमधुरः, तथा कुशा-दर्भादयो विकुशा-वल्यजादयाः तर्विशुद्धं रहितं वृक्षस्य सकलस्याशोकपादपस्य, दह मूलं शाखादीनामपि आदिमो भागो लक्षणया प्रोच्यते, यथा शाखामूलमिदं प्रशाखामूलमिदमित्यादि ततः सकलाशोकपादपसत्कमूलप्रतिपत्तये वृक्षग्रहणं, मूलं यस्य स कुशविकुशविशुद्धवृक्षमूली, यश्चैवंविधः स द्रष्टृणां चित्तसन्तोषाय भवति, तत आहप्रासादीयः- प्रसादाय-चित्तसन्तीपाय - हितस्तदुत्पादकत्वात् प्रासादीय अन एव दर्शनीयो द्रष्टुं योग्यः कस्मादित्याह - 'अभिरूपो' ॐ द्रष्टारं २ प्रत्यभिमुखं न कस्यचिद्विरागहेतू रूपम् आकारो यस्यासावभिरूपः एवंरूपोऽपि कुतः ? इत्याह-प्रतिरूपः- प्रतिविशिष्टं
E
अशोकवृक्षस्य वर्णनं
For Parts Only
~18~