________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- ---------------------- मलं [४२] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
औपपा-
समुद्घा०
तिकम्
सू०४२
॥१०
॥
+
गाथा
प्रदेशः 'केवलकप्पति केवलज्ञानकल्पं सम्पूर्णमित्यर्थः, वृद्धव्याख्या तु केवला-सम्पूर्णः कल्पत इति कल्पः-स्वकार्यकरण| समर्थः वस्तुरूप इतियावत् , केवलश्चासौ कल्पश्चेति समासोऽतस्तं 'निज्जरापोग्गलेहिं'ति निर्जराप्रधानाः पुद्गला निर्जरा| पदलाः, जीनाकर्मतामापादिताः कर्मप्रदेशा इत्यर्थः, अतस्तैर्निर्जरापुद्गलैः 'फुडे'त्ति स्पृष्टो व्याप्तः, 'छउमत्थे 'ति छमस्थो निरतिशयज्ञानयुक्त इह प्रतिपत्तव्यो यतः छद्मस्थोऽपि विशिष्टावधिज्ञानयुक्तो निर्जरापुद्गलान् जानात्येव 'रूवगयं(चेव)लहइ सष'मिति वचनात् 'वण्णेण वणं'ति वर्णेन-वर्णतया याथात्म्येनेत्यर्थः वर्ण-कालवर्णादिक जानाति विशेषतः पश्यति सामान्यतः, 'णो इणडेत्ति नायमर्थः 'समहे'त्ति समर्थ:-सङ्गतः, कर्मपुद्गलानां सातिशयज्ञानगम्यत्वात् , 'सबभतराए'त्ति सर्वाभ्यन्तरकः 'सबखुड्डाएत्ति सर्वक्षुल्लकः, दीर्घत्वं चात्र प्राकृतत्वात् , 'वट्टे'त्ति वृत्तः, वृत्तश्च मोदकवद् घनवृत्तोऽपि स्यादतस्तद्वयवकछेदेन प्रतरवृत्तताभिधानार्थमाह-'तेल्लापूयसंठाणसंठिए'त्ति उपलक्षणत्वादस्य घृतापूपादेरप्यत्र ग्रहः, 'रह
चकवाल'त्ति चक्रवालं-मण्डलं मण्डलत्वधर्मयोगाच्च रथचक्रमपि रथचक्रवालं 'पुक्खरकणिय'त्ति पद्मबीजकोशः, 'जाव माइणामवत्तिकट्टत्ति यावदिति परिमाणार्थस्तावदित्यस्य गम्यमानस्य सव्यपेक्षः, 'इणामेव'त्ति इदं-गमनम् , एवमिति-चप्पु
टिकारूपशीघ्रत्वावेदकहस्तव्यापारोपदर्शनपरः, अनुस्वाराश्रवणं च प्राकृतत्वात् , द्विर्वचनं च शीघ्रतातिशयोपदर्शनपरम् , इतिरुपप्रदर्शनार्थः, कृत्वा-विधाय 'तिहिं अच्छरानिवाएहि ति तिसृभिश्चप्पुटिकाभिरित्यर्थः 'तिस्सत्तखुत्तोत्ति त्रिगुणाः सप्त त्रिसप्त त्रिसप्तवारास्त्रिःसप्तकृत्वः एकविंशतिवारा इत्यर्थः, 'हब'ति शीनं 'घाणपोग्गलेहिति गन्धपुद्गलैः, इह स्थाने यावदित्यस्य सव्यपेक्षस्तावदित्ययंशब्दो दृश्यः, 'एस्सुहुमाणं ति एतत्सूक्ष्माः, कोऽर्थः ? एवं नाम सूक्ष्मास्ते यथा तांश्छद्म
दीप
॥१०९॥
अनुक्रम [५२-५४]
~357~