________________
आगम
(१२)
ཡྻ
सूत्रांक [80]
अनुक्रम [१०]
उपांगसूत्र-१ (मूलं+वृत्ति:)
मूलं [१०...]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[११], अंगसूत्र [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
Education Internation
भाग - १४ "औपपातिक"
तत्वात् एवं 'पुरुषवरगंधहस्ती' गन्धहस्तिता चास्य सामान्यगजकल्पपरचक्रदुर्भिक्षजनमर का दिदुरितविनाशनात्, तथा न भयं दयते ददाति प्राणापहारकरणरसिकोपसर्गकारिण्यपि प्राणिनीत्यभयदयः, अभया वा सर्वप्राणिभयपरिहारवती | दया-घृणा यस्य सोऽभयदयः, न केवलमयमनर्थं न करोति अपि स्वर्थ करोतीति दर्शयन्नाह चक्षुरिव चक्षुः श्रुतज्ञानं तद्द यते यः स चक्षुर्दयः, यथा हि लोके चक्षुर्दत्त्वा वाञ्छित स्थानमार्ग दर्शयन्महोपकारी भवति इत्येवमिहापीति दर्शयन्नाह| मार्ग-सम्यग्दर्शनादिकं मोक्षपथं दयत इति मार्गदयः, यथा हि लोके चक्षुरुद्घाटनं मार्गदर्शनं च कृत्वा चौरादिविलुप्त| धनान्निरुपद्रवं स्थानं प्रापयन् परमोपकारी भवतीत्येव मिहापीति दर्शयन्नाह 'शरणदयो' निरुपद्रवस्थानदायको निर्वाण| हेतुरित्यर्थः, यथा हि लोके चक्षुर्मार्गशरणदानादुःस्थानां जीवनं ददात्येवमिहापीति दशर्यन्नाह-जीवनं जीवो-भावप्राणधारणम्, अमरणधर्मत्वमित्यर्थः, तं दयत इति जीवदयो, जीवेषु वा दया यस्य स जीवदयः, तथा दीप इव समस्तवस्तुप्रका| शकत्वात् द्वीपो वा संसारसागरान्तर्गताङ्गिवर्गस्य नानाविधदुःख कल्लोलाभिघातदुः स्थितस्याश्वासहेतुत्वात्, तथा त्राणम्अनर्थप्रतिहननं तद्धेतुत्वात्राणं, तथा शरणम्-अर्थसम्पादनं तद्धेतुत्वाच्छरणं, तथा 'गइति गम्यतेऽभिगम्यते दुःस्थितैः सुस्थतार्थमाश्रीयते इति गतिः, 'पइड'त्ति प्रतिष्ठन्त्यस्यामिति प्रतिष्ठा - आधारः संसारगर्ते प्रपततः प्राणिवर्गस्येति तथा त्रयस्तमुद्राश्चतुर्थो हिमवानेते चत्वारः पृथिव्या अन्ताः- पर्यन्तास्तेषु स्वामितया भवतीति चातुरन्तः, स चासौ चक्रवर्ती च चातुरम्तचक्रवर्ती, वरश्वासौ चातुरन्तचक्रवतीं च वरचातुरन्त चक्रवर्ती - सर्वराजातिशायी, धर्मविषये वरचातुरन्त चक्रवर्ती धर्मवर चातुरन्तचक्रवर्ती, सकलधर्मप्रणेतॄणां मध्ये सातिशयत्वादिति, तथा अप्रतिहते कटादिभिरस्खलिते अविसंवाद के
भगवंत- महावीरस्य परिचय:
-
For Para Use Only
~168~