________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रमोदकारणवस्तूनां सद्भावात् जना-नगरीवास्तव्यलोका जानपदाश्च-जनपदभवास्तत्रायाताः सन्तो यस्यां सा प्रमुदित| जनजानपदा, पाठान्तरे 'पमुइयजणुजाणजणवया' तत्र प्रमुदितजनान्युद्यानानि जनपदाश्च यस्यां सा तथा । 'आइण्ण. जणमणुस्सा' मनुष्यजनेनाकीर्णा-सङ्कीर्णा, मनुष्यजनाकीर्णेतिवाच्ये राजदन्तादिदर्शनादाकीर्णजनमनुष्येत्युक्तम् , आकीर्णो चा-गुणव्याप्तो मनुष्यजनो यस्यां सा तथा । 'हलसयसहस्ससङ्किटविकिडलठ्ठपणत्तसेउसीमा' हलाना-लाङ्गलानां शतैः | सहबैश्च शतसहस्रा-लक्षैः संकृष्टा-विलिखिता विकृष्टं-दूरं यावद् अविकृष्टा वा-आसन्ना लष्टा-मनोज्ञा कपकाभिमत| फलसाधनसमर्थत्वात् 'पण्णत्त'त्ति योग्यीकृता बीजवपनस्य सेतुसीमा-मार्गसीमा यस्याः सा तथा, अथवा-संकृष्टादि४ विशेषणानि सेतूनि-कुल्याजलसेकक्षेत्राणि सीमासु यस्याः सा तथा, अधवा-हलशतसहस्राणां संकृष्टेन-संकर्षणेन 8 विकृष्टा-दूरवर्तिन्यो लटा प्रज्ञपिता:-कथिताः सेतुसीमा यस्याः सा तथा, अनेन तज्जनपदस्य लोकवाहुल्य क्षेत्रबाहुल्यं चोक्तम् । 'कुकुडसंडेयगामपउरा' कुकुटा:-ताम्रचूडाः पण्डेयाः-पण्डपुत्रकाः तेषां ग्रामा:-समूहास्ते प्रचुरा:-प्रभूताः यस्यां |
सा तथा, अनेन लोकप्रमुदितत्वं व्यक्तीकृतं, प्रमुदितो हि लोकः क्रीडार्थ कुक्कुटान् पोषयति पण्डांश्च करोतीति । 'उच्छुMजवसालिकलिया' पाठान्तरेण 'उच्छुजवसालिमालिणीया' एतद्व्याप्तेत्यर्थः, अनेन च जनप्रमोदकारणमुक्त, न ह्येवंप्रकारव
स्वभावे प्रमोदो जनस्य स्यादिति । 'गोमहिमगवेलगप्पभूया' गवादयः प्रभूताः-प्रचुरा यस्यामिति वाक्यम्, गवेलगाउरभ्राः । 'आयारवन्त चेइयजुवइविविहसंविणविठ्ठबहुला' आकारवन्ति-सुन्दराकाराणि आकारचित्राणि वा यानि चैत्यानि-देवतायतनानि युवतीनां च-तरुणीनां पण्यतरुणीनामिति हृदयं, यानि विविधानि सन्निविष्टानि-सन्निवेशनानि
CREAKESAXCX
चंपानगर्या: वर्णनं
~142~