________________
आगम
(०५)
भाग
11
[भाग-११]“भगवती” - अंगसूत्र - ५ ( मूलं + वृत्ति:)
शतक [-], वर्ग [-], अंतर् शतक [-], उद्देशक [-], मूलं [-]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
Jam Educat
शास्त्रार्थनिर्णयसुसौरभ लम्पटस्य, विद्वन्मधुत्रतगणस्य सदैव सेव्यः ।
श्री निर्वृताख्य कुलसन्नदपद्मकल्पः, श्रीद्रोणसूरिरनवद्ययशःपरागः ॥ ९ ॥
शोधितवान् वृत्तिमिमां युक्तो विदुषां महासमूहेन । शास्त्रार्थनिष्कनिकपणकपपट्टक कल्पबुद्धीनाम् ॥ १० ॥ विशोधिता तावदयं सुधीभिस्तथाऽपि दोषाः किल संभवन्ति ।
मन्महतस्तांश्च विहाय सद्भिस्तद्ब्राह्ममाप्ताभिमतं यदस्याम् ॥ ११ ॥
यदवातं मया पुण्यं वृत्ताविह शुभाशयात् । मोहाद्वृत्तिजमन्यच्च तेनागो मे विशुद्ध्यतात् ॥ १२ ॥ प्रथमादर्शे लिखिता विमलगणिप्रभृतिभिर्निजविनेयैः । कुर्वद्भिः श्रुतभक्तिं दक्षैरधिकं विनीतैश्च ॥ १३ ॥ अस्याः करणव्याख्या श्रुतिलेखनपूजनादिषु यथार्हम्। दाधिकसुतमाणिक्यः प्रेरितवानस्मदादिजनान् ॥ १४ ॥ अष्टाविंशतियुक्ते वर्षसहस्रे शतेन चाभ्यधिके । अणहिलपाटकनगरे कृतेयमच्छुतधनिवसती ॥ १५ ॥ अष्टादश सहस्राणि षट्शतान्यथ षोडश । इत्येवमानमेतस्याः, श्लोक मानेन निश्चितम् ॥ १६॥ अङ्कतोऽपि १८६१६ ॥
इति श्रीमदभयदेवसूरिविरचिता श्रीपञ्चमाङ्गविशेषवृत्तिः परिसमाप्ता ॥
** इति वृत्तिकार - रचिता प्रशस्ति-गाथा:
पञ्चम-अङ्गसूत्रं ‘भगवती' मूलं एवम् अभयदेवसूरि-रचिता वृत्तिः परिसमाप्ता
भगवती-अंगसूत्र- [५/४] मूलं एवं अभयदेवसूरिजी रचिता टीका परिसमाप्ताः मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब
किंचित् वैशिष्ट्य समर्पितेन सह पुनः संकलनकर्ता मुनि दीपरत्नसागरजी [M.Com., M.Ed., Ph.D., श्रुतमहर्षि]
~377~