________________
आगम
(०५)
[भाग-११]“भगवती”- अंगसूत्र -५ (मूलं + वृत्ति:)
शतक [-], वर्ग [-], अंतर् शतक [-], उद्देशक [-], मूलं [-]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥ ९८० ॥
Education International
यदुक्तमादाविह साधुयोधैः, श्रीपञ्चमाङ्गोन्नतकुञ्जरोऽयम् । सुखाधिगम्योऽस्त्विति पूर्वगुवीं, प्रारभ्यते वृत्तिवरत्रिकेयम् ॥ १ ॥ समर्थितं तत्पटुबुद्धिसाधुसाहायकात्केवलमत्र सन्तः । सद्धिदात्र्याऽपगुणांनन्तु, सुखग्रहा येन भवत्यथैषा ॥ २ ॥ वांद्रे कुठे सनकक्षकल्पे, महाद्रुमो धर्म्मफलप्रदानात् । छायान्वितः शस्तविशालशाखः, श्रीवर्द्धमानो मुनिनायकोऽभूत् ॥ ३ ॥ तत्पुष्पकल्पी विलसद्विहारसगन्धसम्पूर्णदिशौ समन्तात् ।
बभूवतुः शिष्यवरावनीचवृत्ती श्रुतज्ञानपरागवन्तौ ॥ ४ ॥
एकस्तयोः सूरिवरो जिनेश्वरः ख्यातस्तथाऽन्यो भुवि वुद्धिसागरः । तयोर्विनेयेन विबुद्धिनाऽप्यलं, वृत्तिः कृतैषाऽभयदेवसूरिणा ॥ ५ ॥ तयोरेव विनेयानां तत्पदं चानुकुर्वताम् । श्रीमतां जिनचन्द्राख्यसत्प्रभूणां नियोगतः ॥ ६ ॥ श्रीमज्जिनेश्वराचार्यशिष्याणां गुणशालिनाम् । जिनभद्रमुनीन्द्राणामस्माकं चांहिसेविनः ॥ ७ ॥ यशश्चन्द्रगणेर्गादसाहाय्यात्सिद्धिमागता । परित्यक्तान्यकृत्यस्य युक्तायुक्तविवेकिनः ॥ ८ ॥ युग्मम् ।
For Penal Use On
वृत्तिकार - रचिता प्रशस्ति-गाथा:
~376~
टीकाकारप्रशस्तिः
॥ ९८० ॥