________________
आगम
(०५)
प्रत
सूत्रांक
[७२९
-७३३]
दीप
अनुक्रम
[८७५
-८८०]
[भाग-११]“भगवती” - अंगसूत्र -५ (मूलं + वृत्ति:)
शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [७२९-९३३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
यशिक्षा वा भाषा-सत्यासत्यामृषा च अभाषा- मृषा सत्यामृपा च चरणं व्रतादि करणं-पिण्डविशुद्धयादि यात्रा - संयमयात्रा मात्रा - तदर्थमाहारमात्रा वृत्तिः विविधैरभिग्रहविशेषैर्वर्त्तनं आचारश्च गोचरश्चेत्यादिर्द्वन्द्वस्ततश्च ता आख्यायन्ते-अभिघीयन्ते, इह च यत्र क्वचिदन्यतरोपादानेऽन्यतरगतार्थाभिधानं तत्सर्वं तत्प्राधान्यख्यापनार्थमेवावसेयमिति । 'एवं अंगपरूवणा भाणिया जहा नंदीए 'त्ति एवमिति पूर्वप्रदर्शित प्रकारवता सूत्रेणाचाराद्यङ्गप्ररूपणा भणितव्या यथा नन्यां सा च तत एवावधार्या, अथ कियद्दूरमियमप्ररूपणा नन्युक्ता वक्तव्या इत्याह- 'जाब सुत्तत्थो गाहा, सूत्रार्थमात्रप्रतिपादनपरः सूत्रार्थोऽनुयोग इति गम्यते, खलुशब्दस्त्वेवकारार्थः स चावधारणे इति, एतदुक्तं भवति गुरुणा सूत्रार्थमात्राभिधान लक्षण | एव प्रथमोऽनुयोगः कार्यों, मा भूत् प्राथमिकविनेयानां मतिमोह इति, द्वितीयोऽनुयोगः सूत्रस्पर्शक निर्युक्तिमिश्रः कार्य इत्ये| वंभूतो भणितो जिनादिभिः, 'तृतीयश्च'तृतीयः पुनरनुयोगो निरवशेषो निरवशेषस्य प्रसक्तानुप्रसक्तस्यार्थस्य कथनात्, 'एषः ' अनन्तरोक्तः प्रकारत्रयलक्षणो 'भवति' स्यात् 'विधिः' विधानम् 'अनुयोगे' सूत्रस्यार्थेनानुरूपतया योजन लक्षणे विषयभूते इति गाथार्थः ॥ १ ॥ अनन्तरमङ्गप्ररूपणोक्ता, अङ्गेषु च नारकादयः प्ररूप्यन्त इति तेषामेवाल्पबहुत्वप्रतिपादनायाह'एएसि ण' मित्यादि, 'पंचगइसमासेणं'ति पञ्चगत्यन्तर्भावेन, एषां चाल्पबहुत्वं तथा वाच्यं यथा बहुवक्तव्यतायांप्रज्ञापनायास्तृतीयपदे इत्यर्थः तच्चैवमर्थतः - "नरनेरइया देवा सिद्धा तिरिया कमेण इह होंति । थोवमसंखअसंखा अणं"तगुणिया अनंतगुणा ||१||" [नरा नैरयिका देवाः सिद्धास्तिर्यञ्चः क्रमेणेह भवन्ति । स्तोका असङ्ख्या अमङ्ख्याः अनन्तगुणिता अनन्तगुणाः ||२||] 'अट्ठगइसमासप्पाबहुयं चत्ति अष्टगतिसमासेन यदस्पबहुत्वं तदपि यथा बहुवक्तव्यतायां तथा वाच्यम्,
Eucation International
For Parts Only
~153~
wor