________________
आगम
(०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [६१६] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[६१६]
गाथा:
प्रतिपतत्येव, मनुष्यस्त्वकपायितोपेतं मनुष्यत्वं यः पुनर्न लप्स्यते स चरमो यस्तु लप्स्यते सोऽचरम इति ॥ ज्ञानद्वारे'नाणी जहा सम्मदिहित्ति, अयमिह सम्यग्दृष्टिदृष्टान्तलन्धोऽर्थः-जीवः सिद्धश्चाचरमः जीवो हि ज्ञानस्य सतः प्रतिपातेऽप्य वश्यं पुनर्भावेनाचरमः, सिद्धस्त्वक्षीणज्ञानभाव एव भवतीत्यचरमः, शेषास्तु ज्ञानोपेतनारकत्वादीनां पुनर्लाभासम्भवे ४ चरमा अन्यथा त्वचरमा इति, 'सवत्यत्ति सर्वेषु जीवादिसिद्धान्तेषु पदेषु एकेन्द्रियवर्जितेष्विति गम्य, ज्ञानभेदापेक्षयाऽऽह-'आभिणियोहिए इत्यादि, 'जहा आहारओत्तिकरणात् स्याचरमः स्यादचरम इति दृश्य, तत्राभिनिवोधिकादिज्ञानं यः केवलज्ञानप्राप्त्या पुनरपि न लप्यते स चरमोऽन्यस्वत्वचरमः, 'जस्स जं अस्थिति यस्य जीवनारकादेर्यदाभिनिबोधिकाद्यस्ति तस्य तद्वाच्यं, तच्च प्रतीतमेव, 'केवलनाणी'त्यादि, केवलज्ञानी अचरमो वाच्य इति भावः 'अन्नाणी' इत्यादि अज्ञानी सभेदः स्याश्चरमः स्यादचरम इत्यर्थः यो ह्यज्ञानं पुनर्न लप्स्यते स चरमः यस्त्वभव्यो ज्ञानं न लप्स्यते एवासावचरम इति [ग्रन्थानम् १५०००] एवं यत्र यत्राहारकातिदेशस्तत्र तत्र स्थाच्चरमः स्यादचरम इति व्याख्येयं, शेषमप्यनयैव दिशाऽम्युह्यमिति ॥ अथ चरमाचरमलक्षणाभिधानायाह-'जो जं पाविहितिगाहा 'या' जीवो नारकादिः 'य' जीवत्वं नारकत्वादिकमप्रतिपतितं प्रतिपतितं वा 'प्राप्स्यति'लप्स्यते पुनः पुनरपि 'भावं धर्म स 'तेन' भावेनतद्भावापेक्षयेत्यर्थः अचरमो भवति, तथा 'अत्यन्त वियोगः' सर्वधाविरहः 'यस्य' जीवादेर्येन भावेन स तेनेति शेष: चरभो भवतीति । अष्टादशशतस्य प्रथमः ।। १८-१॥
दीप अनुक्रम [७२१-७२६]
अत्र अष्टादशमे शतके प्रथम-उद्देशक: परिसमाप्त:
~382