________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५४३-५४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५४३-५४६]
दीप अनुक्रम
पटूपदिका एव प्राणानामुच्छासादीनां भावात्प्राणाः भवनधर्मकत्वाद्भूताः उपयोगलक्षणत्वाज्जीवाः सत्त्वोपपेतत्वात्सत्त्वास्ततः कर्मधारयस्तदर्थतायै, चशब्दः पुनरर्थः, 'तत्थेवत्ति शिरःप्रभृतिके, 'किं भवं मुणी मुणिए'त्ति किं भवान् 'मुनिः तपस्वी जातः 'मुनिए'त्ति ज्ञाते तत्त्वे सति ज्ञात्वा वा तत्त्वम् , अथवा किं भवान् 'मुनी' तपस्विनी 'मुणिए'त्ति मुनिका-तपस्वीति, अथवा किं भवान् 'मुनिः' यतिः उत 'मुणिका' ग्रहगृहीतः 'उदाहुत्ति उताहो इति विकल्पार्थों | निपातः 'जूयासेज्जायरएति यूकानां स्थानदातेति, 'सत्तट्ट पयाई पच्चोसकर'त्ति प्रयत्नविशेषार्थमुरभ्र इव प्रहारदानार्थ-|| मिति. 'सीउसिणं तेयलेस्संति स्वां-खकीयामुष्णां तेजोलेश्यां 'से गयमेयं भगवं गपगयमेवं भगवति अथ गत-15 | अवगतमेतन्मया हे भगवन् ! यथा भगवतः प्रसादादर्य न दग्धः, सम्भ्रमार्थत्वाच्च गतशब्दस्य पुनः पुनरुच्चारणम्, इहर |च यद्गोशालकस्य संरक्षणं भगवता कृतं तत्सरागत्वेन दयैकरसत्वाद्भगवतः, यच्च सुनक्षत्रसर्वानुभूतिमुनिपुङ्गवयोर्न करि-19
प्यति तद्वीतरागत्वेन लन्ध्यनुपजीवकत्वादवश्यंभाविभावत्वाद्वेत्यवसेयमिति । 'संखित्तविउलतेयलेसे'त्ति सविताऽप्रयो|गकाले विपुला प्रयोगकाले तेजोलेश्या-लब्धिविशेषो यस्य स तथा, 'सनहाए'त्ति सनखया यस्यां पिण्डिकायां वध्यमानायामङ्गुलीनखा अङ्गष्ठस्याधो लगन्ति सा सनखेत्युच्यते 'कुम्मासपिंडियाए'त्ति कुल्माषाः-अर्द्धस्विन्ना मुद्गादयो माषा इत्यन्ये 'वियडासएणं'ति विकट-जलं तस्याशयः आश्रयो वा-स्थानं विकटाशयो विकटाश्रयो वा तेन, अमुं च प्रस्तावाचुलुकमाहुवृद्धाः, 'जाहे य मोत्ति यदा च स्मो-भवामो वयं 'अनिष्फन्नमेव'त्ति मकारस्यागमिकत्वादनिष्पन्न एव । 'वणसइकाइयाओ पजट्टपरिहारं परिहरंति'त्ति परिवृत्य २-मृत्वा २ यस्तस्यैव वनस्पतिशरीरस्य परिहार:-परिभोगस्तत्रैवोत्पा-15
[६४१
६४४]
।
गोशालक-चरित्रं
~244