________________
आगम
(०५)
प्रत
सूत्रांक
[५२१]
दीप
अनुक्रम [६१८]
[भाग-१०] “भगवती”- अंगसूत्र - ५ ( मूलं + वृत्ति:)
शतक [१४], वर्ग [–], अंतर्-शतक [-], उद्देशक [७], मूलं [५२१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती” मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
Eucati
'राग' इत्यादि, तत्र किल भगवान् श्रीमन्महावीरः केवलज्ञानाप्राप्त्या सखेदस्य गौतमस्वामिनः समाश्वासनायात्मनस्तस्य च भाविनीं तुल्यतां प्रतिपादयितुमिदमाह - 'गोयमे' त्यादि, 'चिरसंसिद्धोऽसि ति चिरं बहुकालं यावत् चिरे वा-अतीते प्रभूते काले संश्लिष्टः- स्नेहात्संबद्धश्चिरसंश्लिष्टः 'असि' भवसि 'मे' मया मम वा त्वं हे गौतम !, 'चिरसंधुओ 'त्ति चिरं बहुकालम् अतीतं यावत् संस्तुतः - स्नेहात्प्रशंसितश्चिरसंस्तुतः, एवं 'चिरपरिचिए ति पुनः पुनर्दर्शनतः परिचितश्चिरपरिचितः, 'चिरजुसिए'ति चिरसेवितश्चिरप्रीतो वा 'जुषी प्रीतिसेवनयोः' इति वचनात् 'चिराणुगए'ति चिरमनुगतो ममानुगतिकारित्वात्, 'चिराणुवत्तीसि'त्ति चिरमनुवृत्तिः - अनुकूलवर्त्तिता यस्यासौ चिरानुवृत्तिः, इदं च चिरसंश्लिष्टत्वादिकं क्कासीत् ? इत्याह- 'अनंतरं देवलोए' ति अनन्तरं निर्व्यवधानं यथा भवत्येवं देवलोके अनन्तरे देवभवे इत्यर्थः ततोऽपि - अनन्तरं मनुष्यभवे, जात्यर्थत्वादेकवचनस्य देवभवेषु मनुष्यभवेषु चेति द्रष्टव्यं तत्र किल त्रिपृष्ठभवे भगवतो गौतमः सारथित्वेन चिरसंश्लिष्टत्वादिधर्म्मयुक्त आसीत्, एवमन्येष्वपि भवेषु संभवतीति, एवं च मयि सव गाढत्वेन स्नेहस्य न केवलज्ञानमुत्पद्यते भविष्यति च तवापि स्नेहक्षये तदित्यधृतिं मा कृथा इति गम्यते, 'किं परं, मरण'त्ति किं बहुना 'पर'ति परतो 'मरणात्' मृत्योः, किमुक्तं भवति ? -कायस्य भेदाद्धेतोः 'इओ चुय'त्ति 'इतः' प्रत्यक्षान्मनुष्यभवाश्युतौ 'दोवि'त्ति द्वावप्यावां तुल्यौ भविष्याव इति योगः, तत्र 'तुल्यो' समानजीवद्रव्यौ 'एकहति 'एकार्थी' एकप्र योजनावनन्तसुखप्रयोजनत्वात् एकस्थौ वा एकक्षेत्राश्रिती सिद्धिक्षेत्रापेक्षयेति 'अविसेसमणाणत्त'त्ति 'अविशेष' निर्विशेषं यथा भवत्येवम् 'अनानात्वौ' तुल्यज्ञानदर्शनादिपर्यायाविति, इदं च किल यदा भगवता गौतमेन चैत्यवन्दनायाष्टापदं गत्वा
गौतमस्वामिनं श्री वीर प्रभोः आश्वासनं
For Parts Only
~203~
nary org