SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [२६०] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२६०] गाथा समश्रेणि प्रतिपद्यते पञ्चमेन तूत्पत्तिस्थान प्रामोति, तत्र चाद्ये समयचतुष्टये वऋचतुष्टयं स्यात् , तत्र चानाहारक इति, & इदं च सूत्रे न दर्शितं, प्रायेणेत्थमनुत्पत्तेरिति । एवं दंडओत्ति अमुनाऽभिलापेच चतुर्विंशतिदण्डको वाच्यः, तत्र च जीवपदे एकेन्द्रियपदेषु च पूर्वोक्तभावनयैव चतुर्थे समये नियमादाहारक इति वाच्यं, शेषेषु तृतीयसमये नियमादा४ हारक इति, तत्र यो नारकादित्रसस्त्रसेष्वेवोत्पद्यते तस्य नाल्या बहिस्तादागमनं गमनं च नास्तीति तृतीयसमये निय& मादाहारकरवं, तथाहि-यो मत्स्यादिभरतस्य पूर्वभागादैरवतपश्चिमभागस्याधो नरकेषूत्पद्यते स एकेन समयेन भरतस्य पूर्वभागात्पश्चिमं भागं याति द्वितीयेन तु तत ऐरवतपश्चिम भागं ततस्तृतीयेन नरकमिति, अत्र चाद्ययोरनाहारकस्तृतीये त्याहारकः, एतदेव दर्शयति-'जीवा एगिदिया य चउत्थे समये सेसा तइयसमए'त्ति ॥ 'कं समयं सबप्पा-115 हारए'त्ति कस्मिन् समये सर्वाल्पः-सर्वथा स्तोको न यस्मादन्यः स्तोकतरोऽस्ति स आहारो यस्य स सर्वाल्पाहारः स एव | सर्वाल्पाहारका, पढमसमयोववन्नए'त्ति प्रथमसमय उत्पन्नस्य प्रथमो वा समयो यत्र तत् प्रथमसमयं तदुत्पन्न-उत्पत्तिर्यस्य स तथा, उत्पत्तेः प्रथमसमय इत्यर्थः, तदाहारग्रहणहेतोः शरीरस्याल्पत्वात्सर्वाल्पाहारता भवतीति, 'चरमसमयभवत्ये वति चरमसमये भवस्य-जीवितस्य तिष्ठति यः स तथा, आयुषश्चरमसमय इत्यर्थः, तदानी प्रदेशानां संहतत्वेनाल्पेषु शरीरावयवेषु स्थितत्वात्सर्वाल्पाहारतेति ॥ अनाहारकत्वं च जीवानां विशेषतो लोकसंस्थानवशाद्भवतीति लोकप्ररूपणसूत्रम् किंसंठिए मंसे ! लोए पन्नसे?, गोयमा ! सुपइट्टगसंठिएलोए पन्नत्ते, हेहा विच्छिन्ने जाव उपि उहुंमुईजागागारसंहिए, लेसि च णं सासयंसि लोगंसि हेहा विच्छिन्नंसि जाब उपि उलुसुइंगागारसंठियंसि उप्पन्न दीप अनुक्रम [३२७ ३२८] - * ~17~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy