________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[९३]
स्वपरिमाणपूरणात् , 'किइ'त्ति कीर्त्तयति पारणकदिने इदं चेदं चैतस्याः कृत्यं तच्च मया कृतमित्येवं कीर्तनात् 'अणु|पाले 'त्ति तत्समाप्तौ तदनुमोदनात्, किमुक्तं भवति ? इत्याह-आज्ञयाऽऽराधयतीति एवमेताः सप्त सप्तमासान्ताः, ततोऽष्टमी प्रथमा सप्तरानिन्दिया-सप्ताहोरात्रमानाः एवं नवमी दशमी चेति, एतास्तिस्रोऽपि चतुर्थभक्तनापानकेनेति, उत्तानकादिस्थानकृतस्तु विशेषः, 'राइंदिय'त्ति रात्रिन्दिवा, एकादशी अहोरात्रपरिमाणा, इयं च पष्ठभक्केन, 'एगराइय'त्ति एकरात्रिकी, इयं चाष्टमेन भवतीति । 'गुणरयणसंवच्छति गुणानां -निर्जराविशेषाणां रचन-करणं संवत्सरेण-सत्रिभागवर्षेण यस्मिंस्तपसि तद् गुणरचनसंवत्सरं, गुणा एव वा रक्षानि यत्र स तथा गुणरतः संवत्सरो यत्र तद्दुणरत्नसंवत्सरं-तपः, इह च त्रयोदश मासाः सप्तदशदिनाधिकास्तपःकालः, त्रिसप्ततिश्च दिनानि पारणककाल इति, एवं पायम्-"पण्णरसबीसचउबीस चेव चउवीस पण्णवीसा य । चउबीस एकवीसा चउवीसा सत्तवीसा य ॥१॥तीसा तेत्तीसाविय चउबीस छवीस अछवीसा य । तीसा बत्तीसावि य सोलसमासेसु तवदिवसा ॥२॥ पण्णरसदसहकप्पंचचउर | पंचसु य तिण्णि तिण्णित्ति । पंचसु दो दो य तहा सोलसमासेसु पारणगा ॥३॥"
दीप अनुक्रम [११४]
१-पश्चदश विंशतिश्चतविशतिवैव चतुर्विंशतिः पञ्चविंशतिश्च । चतुविशतिरेकविंशतिश्चतुर्विंशतिः सप्तविंशतिश्च ॥ १॥ त्रिंशत्रयख्रिशदपि च चतुर्विशतिः पषिचतिरष्टविंशतिष । त्रिशद्वात्रिंशदपि च पोडशमासेषु तपोदिवसाः॥२॥ पथदश दशाट पद पच | चत्वारः अयक्षयश्च पचास । पञ्चसु द्वौ द्वौ च तथा पोडशमासे पारणकदिवसाः ॥३॥
SAREauratonintamational
स्कंदक (खंधक) चरित्र
~262~